SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ - . . 60. (तोटकवृत्तम्) प्रभवः प्रभवाः प्रभवः प्रभवाः, प्रकराः प्रमदाः प्रकराः प्रमदाः । प्रमनोभवदाः प्रमनोभवदाः, त्रिशलाजवरा-स्त्रिशलाजवराः ॥८॥ व्याख्या :- प्रभवः - अखिलकर्मविनाशविधावीश्वराः । प्रकृष्टः = श्रेष्ठो जगति महत्तमो भवो जन्म येषां ते प्रभवाः । 'भवः सप्ताप्तिजन्मसु' - इत्यनेकार्थः । पुनः प्रभवः-अखिलजगज्जन्तुजीवातुभ्यो धर्मदातृत्वात् स्वामिनः, तेषां हिते - योगक्षेमावहत्वात् । तथा प्रगतो भवः-संसारो येभ्यस्ते प्रभवाः । प्रकराः इति - प्रकृष्टाः कराः - प्रभा येषामिति । भास्वद्भामण्डलमण्डना F इत्यर्थः। प्रमदाः इति - प्रकृष्ट-सर्वतो मुख्यं महत् मं-ज्ञानमाध्यात्मिकमात्मानुभूतिपरम्, अतः सर्वभूतसत्त्वहितप्रदम्, तद् ददति - प्रयच्छन्तीति प्र-म-दाः । पुनः प्रकराः इति - प्रकृष्टं कं-सुखं-परमशमशर्म, तद् रान्ति-प्रयच्छन्ति ये इति प्र-क-राः । अतुच्छात्मसुखदायिन इत्यर्थः । 'रांक् दाने' इति हैमधातुपाठः । तथा प्रमदाः इति-प्रणष्टः - प्रकर्षणाऽपगतो मदो-गर्वो येभ्यस्ते प्रमदाः, दर्पापदीभूता इत्यर्थः । पुनः प्रकृष्टं- श्रेष्ठं मनः शुक्लध्यानत्वाद् येषां ते प्रमनसो - विशदचेतसः, तथा भवं-मोक्षं यच्छन्ति ये इति भवदा-मुक्तिदातारः । ततः प्रमनसश्च ते भवदाश्चेत्युभयपदप्रधान: - Pई कर्मधारयः - प्रमनोभवदाः । पुनः प्रगतं-प्रकर्षेणाऽपगतं सङ्क्लेशमूलकै रागादिभिर्मनो येषां ते प्रमनसः, नष्टरागरोषमनस्त्वात् । भवं-संसारं द्यन्ति-कर्तयन्ति-विनाशयन्ति इति भवदाः । ततः प्रमनसश्च ते भवदाश्चेति प्रमनोभवदाः । अथवा, १. श्रीहेमचन्द्राचार्यप्रणीतेऽनेकार्थसङ्ग्रहे द्वितीयकाण्डे भवशब्दः श्रेयः-इत्यर्थवाचकत्वेन निदिष्टोऽस्ति । "भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे० " ॥५३६॥ इति । तथाऽभिधानचिन्तामणौ देवाधिदेवकाण्डे 'श्रेयो निर्वाणं' इत्यपि निर्दिष्टम् । 00:00 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy