________________
-
ये प्रमनसः - समनसः, कषाय-विषयाल्पत्वात् समतावलीना योगिनः Sप्रशस्तमनोवाग्वपुषः सन्ति, तेषां प्रमनसां भवं द्यन्तीति प्रमनोभवदाः ।
___ पुनस्त्रिशलाभिधाया मातुर्जायन्ते ये, ते त्रिशलाजा:-त्रिशलानन्दनाः । अतोऽभिधानमभिहितं स्तुत्यानां श्रीमतां वीरजिनेश्वराणामिति । ततो वरा:-श्रेष्ठा-विश्वेष्वाप्तप्रवराः । ततस्त्रिशलाजाश्च ते वराश्चेति त्रिशलाजवराः - वीरजिनेश्वरा इत्यर्थः । ते त्रिशलाजाता भूतजातहिताः सन्तु इति क्रियापदं गम्यम् । ते कीदृशाः सन्तु ? इत्यत्रोच्यते - त्रिशलाजवराः इति - त्रयाणां शानां-सुखानां-ज्ञानदर्शनचारित्राणां परमप्रशमात्मकानां
सुखानुभूतीनां - मनोवाक्कायातीतानां साद्यनन्तस्थितिकानां पूर्णात्मतापरमाणाम् । अतः, - त्रयाणां शानां समाहारस्त्रिशम्- अतीन्द्रियं सुखमिति । तद् लान्ति प्राप्नुवन्ति जीवा यत्रेति
त्रिशलम् - परमप्रशमसुषमानन्दप्रदमिति । पुनर्न विद्यते जः - पुनर्जन्म यस्माद् यत्र वा तद्-अजम् । “अपुणरावित्ति सिद्धिगइनामधेयं ठाण' मिति शक्रस्तववचनात् । अजम् - अपुनर्भवपदं - परमशिवं, मोक्षपदं वा । त्रिशलं च तदनं चेति त्रिशलाजम्, तस्य-परमसुखसंस्थानस्य मुक्तिपदस्य वरं-वरदानं सम्पद्यते यैस्ते त्रिशलाजवरा:शिवपददातार इत्यर्थः ।
अमृतत्वं विषं याति सदैवाऽमृतवेदनात् । शत्रुमित्रत्वमायाति मित्रसंवित्तिवेदनात् ।।
[ योगवाशिष्ठम् ]
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org