SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ यथा तथा तथा न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ॥ इति महाभारतानुशासनपर्वणि । अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः || १ || यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनः । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥ इति महाभारतशान्तिपर्वणि । Jain Education International भो ! भोः ! प्रजापते ! राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥१॥ एते त्वां संप्रतीक्षन्तः स्मरन्तो वैशसं तव । संपरेतमयःकूटैः छिन्दन्त्युत्कटमन्यवः ॥२॥ इति भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने । एवं शिवपुराणादिषु हिन्दुशास्त्रेष्वन्येष्वपि हिंसाया निषेधः प्राप्यते । किञ्चाऽनार्यजनानां शास्त्रेष्वपि कुत्र कुत्रचिज्जीवहिंसाया निषेधः प्रतिपाद्यते । यथा - " नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" । अस्याऽर्थः - अस्माकं जरथोस्तिधर्म एवं पावन: (नेक) यत्, पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या । इति जरथोस्तिधर्ममान्ये शाहनामाग्रन्थे । तथा - "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम । अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम | मन तू ईअशते वीशपे म जेशतेम शराशेम जवीआ अउ अंबानो" । अर्थः- ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये वा तान् छित्वा भक्षणायाऽऽदिशन्ति ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्याः । यद्वा ते दुष्टा For Privateersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy