________________
सुवर्णनिधिश्चाऽवाप्येत, किन्तु तावत् तत्सर्वं निरर्थकं यावत्प्रकृतिरनाद्रियते, इत्यपि ज्ञेयम् ।
किञ्च-अद्य तु फलानां पुष्पाणां पक्षिणां पशूनां च नामाऽपि न जानीमो वयम्; एतादृशी दयनीया स्थितिरस्माकमस्ति । तत एवाऽस्माभिर्जीवने निर्दोषानन्दस्सहजमनःप्रसत्तिश्च नाऽनुभूयते । यावद्वयमेतस्याः प्रकृत्या दूरं भविष्यामस्तावद्जीवनस्य रमणीयतां यथार्थतां च नाऽनुभविष्यामः । भगवदनुग्रहेण वयं पादचारिणो जैनसाधवः प्रतिदिनं प्रकृते रमणीयतां तद्द्वारेण च सहजानन्दमप्यनुभवामः । अस्माकं जीवने तु द्वितीयोऽपि लाभोऽवाप्यते यद्, “निर्दोषसंयमजीवनस्य रमणता, सर्वतः षड्जीवनिकायस्याऽभयदानम्, गुरुभगवतामनुशासनम्, तीर्थकर भगवदाज्ञायाः पालनम्, तद्द्वारेण च प्रतिक्षणं प्रतिकार्यं वा निर्दोषानन्द" इति । अत्रैवाऽस्माकं कृते तु मोक्षसुखमस्ति खलु । यदि नाम त्वमप्येतादृशं सौन्दर्यं द्रष्टुं सहजानन्दं प्राप्तुं चेच्छे:, तर्ह्यद्यैवाऽस्माभिस्साकं विहारयात्रायामागच्छ | तथाऽद्यैव मनसा निश्चिनु, "येन केनाऽपि प्रकारेण प्रकृतेविनाशकार्यं न विधेयमिति ।
अन्ते, एतस्याः प्रकृतेः संरक्षणमेवाऽस्माकं तां प्रत्युत्तरदायित्वमस्ति इति ज्ञात्वा तस्याः प्रकृतेः संरक्षणे साहाय्यं विधाय सृष्टिलयशृङ्खलाया अङ्गं भवेत्याशासे ।
Jain Education International
सेवितव्यो महावृक्षः फलच्छायासमन्वितः यदि दैवात् फलं नाऽस्ति छाया केन निवार्यते ? ॥
For Private Personal Use Only
www.jainelibrary.org