SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कुष्माण्डकारुमित्रेऽलाबूकं वदतः स्फीतं वाक्यम् । पनसस्य कालो गतो वयं मुख्य-गृह-रक्षाऽमात्याः ॥७७॥ रासभोऽपि रसिकवरः सति रसे प्राकृतजनग्रहणीये । रण्डाभुग्भोगीव रजकः पयोधरेषु स्तिमितः ૭૮ द्वारिकामालोक्य कविः कृष्णरोषं प्रेक्षते शतधारम् । राधाऽदर्शनविषण्णं प्रावृषेण्यं हृतवृन्दावनम् ॥७९॥ श्रीजगन्नाथोऽधिपतिर्नीलशैलवसतिः किं पुनस्तस्य ।। वन्याहतजनतायां स खलु नूतनकल्पारम्भी ૮૦ની आसिन्धुप्राप्तिं किल व्याप्तिं शिखरिशिखरबिन्दुर्जलदजः । तित्यक्षति न कदाचिन्निःशेषश्रमाद्धि वस्तुगतिः ૮ वन्यावात्याव्याहत-व्यामोहाः सधना निर्धना अधुना । सर्वकारदत्तभुजः सुखदुःखे कस्य पुनः स्थिरे ? ॥२॥ वर्षानदीपूरे स गोबालको गोमहिषपुच्छकरः । नदी तर्ता पृष्ठेव राजाऽयति शास्तुं चरर्णभुवम् ॥३॥ शेषा मासाः काल्या दासस्य कठिना अकठिनहृदयस्य । विरहिणो वर्षारोधे कमठायन्ते त आनिर्देशम् ૮૪ો हरिहरयुगलस्येह हरितपदलक्ष्माऽऽभाति निर्वचनात् । अनिर्वचनीयजनुषौ मन्ये श्यामघनकालोऽजनि ૮૬ો पदपथप्रान्ते मिथुनं निशोपगूढं वृक्षाश्रयबद्धम् । सद्यो विद्युद्वर्षाहतं हा दरिद्रमनोवल्ली ૮૬ો तथाऽपि माता तुलसी वर्षासु सिञ्चति धर्मकामाढ्या । पुत्रा भवन्तु योग्याः पतिश्च सुखी कीर्त्याउनवद्यः ॥७॥ १. गोचारणभूमिः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy