SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ धनिनां क्रीडावाप्यः सद्यःसुलभपल्वलैरद्य विजिताः । सभेकडिण्डिमघोषं निर्धनार्भकानन्दोऽमन्दः ૬૬ો शाकावमूल्यसुखितो दिनश्रमिकोऽप्यद्य शाकापणेषु । कृशकण्ठवलयिवस्त्रं प्रसार्य बध्नाति द्रव्याणि ૬૦ अजावियूथ इदानीं हरिततॄणाशो न नगाग्रवनयायी । क्लेशोऽपगतोऽद्य दायी यदेन्द्रस्तदाऽक्केऽपि सम्पत्तिः । ૬૮ી भूधरेषु भूचालो वृष्टिदष्टेषु तु पथिक पथरोधः । नीलकण्ठो हि शरणमुद्दिधीर्षुर्दासं करुणः ૬૬ો गभस्तिहस्तेऽपदस्थे मेघवूत्रग्रस्ते जगति त्रस्ते । अराजकतन्त्रे बत दुर्वृत्त इव भाति खद्योतः ॥७०॥ दर्दूरदुर्दान्तरवात्कोकिलकाकलिर्लीना लोक्यताम् । ननु दुष्टभयात्सुजनः स्वजनप्रणयं न प्रकटयति गर्भाधानक्षणोऽयं हरवूषस्य गेहे गेहेऽन्वेषा । वर्षा मूषलधारा गौस्तु रज्जु छित्त्वा याता ૭૨ माता शिशुं कथयति गृहान्तरे शाययितुं कथां सहजाम् । गहनकानने कृष्णो गोवर्धनं दाधार शैलम् કરો मध्येग्राम मन्दिरे भागवतघरे' पाठभजनध्वनिम् । भअन्निव भाति वजं हानौचित्यं रसभङ्गहेतुः ॥७४॥ दिननिशाकरग्रहणं मेघाच्छन्नं न साम्प्रतं दृश्यम् । दुर्दिनदुष्टोऽपि चरितं निजगृहजं कुशलं गोपयति ॥७५॥ उदग्रं महिलाङ्गुलं' शाकवाटिकायामवाप्तगन्धम् । अवाप्तपदपुरुषखरे नासा न कस्याऽवमत्री सा ? ॥६॥ काशकृत्सीये धातुपाठे Vघू निवासे इति धातोः निवासार्थे 'घर:' सिध्यति अशोकावदाने च घरिणीति प्रयोगादपि तच्छब्दसिद्धेः । भाषायां भिण्डीति कथितः आंग्ले च लेडीज़फिंगर इति शाकविशेषः । ASIRE २. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy