SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ CREA " किंरूपं वचनं सावद्यं (सदोषम् ) किंरूपं वा वचनं निरवद्यं (निर्दोषम् ) - इति सावद्यानवद्ययोर्वचनयोर्विशेषं यो न जानाति स वक्तुमपि न समर्थः (नाऽधिकारी "त्यर्थः) । तर्हि कथं स देशनां प्रवचनं वा कर्तुं क्षमो भवेत् ? अर्थात् कथं तस्य प्रवचनायाऽनुज्ञा दीयेत ? - इति । एषाऽस्ति मर्यादा जिनशासनस्य । तत्र सदा यत्नवता भाव्यं येन स्वपरहितं स्यात् । अथ, 'कोऽनुयोगस्याऽधिकारी ?' इति विषयमधिकृत्य यन्निर्दिष्टं तत् सावधानं “”देसकुलजाइरूवी, 'संघयणधिइजुओ 'अणासंसी । * अविकत्थणो 'अमाई, थिरपरिवाडी गहियवक्को ॥१॥ पश्येम 'जियपरिसो जियनिद्दो, "मज्झत्थो देसकालभवन्नू । १९आसन्नलद्धपइभो, १३ णाणाविहदेस भासन्नू ॥२॥ १४पंचविहे आयारे, जुत्तो १५ सुत्तत्थतदुभयविहिन्नू । १६आहरणहेउकारण-णयणिउणो गाहणाकुसलो ||३|| १८ससमयपरसमयविऊ, गंभीरो २०दित्तिमं २१ सिवं सोमो | २३ गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥४॥" (१) देशकुलजातिरूपी आर्यदेशोत्पन्नः स स्यात्, यतस्तादृशस्य वचांसि सुखेनाऽवबुध्यानि भवन्ति । अतोऽत्र देशग्रहणं कृतम् । कुलं च पैतृकं भवतिईक्ष्वाकुकुलज्ञातकुलादि । एतादृशः कुलीनश्च यथोत्क्षिप्तभारवहने न कदापि श्राम्यति । अर्थात् व्रतादीनां भारं स सुखेन, विना खेदेन च निर्वहति । तथा जातिस्तु मातृकी भवति । जात्या सम्पन्नो विनयादिगुणैर्युक्तो भवति । " यत्राऽऽकृतिस्तत्र गुणाः" इत्युक्तिमनुसृत्याऽत्र च रूपग्रहणं कृतम् । तेन रूपवानपि स भवेत्, इति । Jain Education International - (२) संहननधृतियुतः संहननं नाम शरीरगतोऽस्थिबन्धः । एतेन स दृढसंहननः स्यादिति निर्दिष्टम् । तथा धैर्यगुणयुतोऽपि स स्यात् येन व्याख्यानादिकार्येषु कदापि खेदं न प्राप्नुयात् । For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy