SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ " " ACAAAALAatabaca . . १ . . * भारतेऽहिंसायाः प्राधान्यं दृग्गोचरीभवति । अत्रत्यानामार्यजनानां हृदये दया कारुण्यं - चाऽपि विद्यते । तदा च तत् कथं कुतः केन कारणेन चेत्यादयो नैके प्रश्नाश्चित्त , उद्भवन्ति । तेषां प्रश्नानां प्रत्युत्तरमितिहास एव ददाति, तथाऽपि तदितिहासमनुसृत्य मयैतदेवोच्यते यद्, भारते दृश्यमानाया एतादृश्या अहिंसाया: परम्पराया रक्षणे मुख्यप्रदानं जैनानामस्ति । तद् दृष्ट्वैव च भारतीयजनपदस्य नेत्रा श्रीलोकमान्यतिलकमहोदयेन "गूर्जरदेशे दृश्यमानाया एतादृश्या अहिंसाभावनाया मूलं जैना" इत्युक्तमासीत् ।। जिनमतेऽहिंसायाः प्रतिपादनं सर्वकालिकमस्ति । सर्वैरपि तीर्थकृद्भिरहिंसैव निरूपिता। गदितं च - जे जिणवरा अईया जे संपइ जे अणागए काले । __सव्वेवि ते अहिंसं वदिसु वदिहिति विवदिति ॥१ (श्रीआचाराङ्गसूत्रस्य नियुक्तौ-२२६) * तथैव चतुर्विंशतितीर्थकरैरार्यदेशेऽहिंसायाः परम्परा रक्षिता, एवमार्यजनानां - * हृदयेऽहिंसाया बीजं स्थापितम् । पश्चाच्च क्रमशः प्रतिशतकं बहवस्समर्था जैनाचार्या * आर्यभूमौ सञ्जाताः, यैरहिंसायाः सा प्रणालिका ससन्मानं रक्षिता । अत्र तेषां सर्वेषां वर्णनं कर्तुं न प्रस्तुतम्, तथाऽपि किञ्चिद् लिखामि, येन ज्ञायते यद्, जैनाः कीदृश्यां कठिनस्थितावपि कया रीत्याऽहिंसापरम्परां पालयाञ्चक्रुरिति । एकादशे शताब्दे 'कलिकालसर्वज्ञ' बिरुदविभूषितः पूज्यपादश्रीहेमचन्द्रसूरीश्वरो - बभूव । येन गूर्जरपतिः सिद्धराजजयसिंहः प्रतिबोधितः । तस्योत्तराधिकारी कुमारपालो गूर्जरनरेश्वरोऽभूत्। आचरणपूर्वकेण सदुपदेशदानेन तेन सूरिणा विबोध्य स जैनः श्रावकोऽकारि । तद्द्वारेणाऽहिंसाया भावना यादृशी पुष्टीकृता यादृशश्च प्रचारः कृतः, तत्त्वनन्यमेव । तस्मिन् काले चौलुक्यवंशस्य कुलदेवी कण्टकेश्वरी आसीत् । तस्या - देव्याः समक्षं नवरात्रमहोत्सवेऽनेकेषां पशूनां बलिर्दीयते स्म । तथा तत्रत्याजना - मन्यन्ते स्म यद्, यदि न बलिर्दीयेत तदा चौलुक्यवंशो नश्येते'ति । ततश्च सर्वैर्वंशजै १. ये जिनवरा अतीता ये सम्प्रति येऽनागते काले । * सर्वेऽपि ते अहिंसामवदन् वदिष्यन्ति विवदन्ति । " MALoan J . Jain Education International For Private७१rsonal use only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy