________________
-
केषाञ्चिन्मते पृथिव्यादीनां जीवानां वधे न पापम्, अन्येषां मते वनस्पतीनां हिंसायां न पापम्, अपरेषां मते द्वीन्द्रियादीनां जीवानां घाते न पापम्, केषाञ्चिन्मते स्वधर्मानङ्गीकृतमानवानां वधे न पापम्, इति ब्रुवन्ते ते। जैनानां मतेऽहिंसायाः सर्वोत्कृष्टं निरूपणं दर्शितम् । अत्र तु जीवमात्रस्य हनने पापं वर्णितम् । अतिसूक्ष्मजीवानामपि प्राणेभ्यो वियोगो नाम हिंसेति कथ्यते । कथितं च - पञ्चेन्द्रियाणि त्रिविधं बलं चो-च्छ्वासनिःश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ।। वाचकश्रीउमास्वातिमहाराज आह___'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' । (तत्त्वार्थसूत्रम्- ७/८)
एषा तु स्थूलहिंसा प्ररूपिता । एवं च सूक्ष्महिंसाऽपि वर्णिता । केषाञ्चिदपि जीवानां दुष्टचिन्तनमशुभचिन्तनं नाम हिंसा, तेषां जीवानामवमाननं दुःखोत्पादनं चाऽपि हिंसा । एतादृश्या अहिंसायाः प्ररूपणं केवलं जिनमत एवोपलभ्यते, नाऽन्यत्र कुत्रचिदपि। जिनमते त्वहिंसायाः प्राधान्यमतीव वर्तते । अत्र तु महाव्रत-अणुव्रतनियमादिषु प्रथमाऽहिंसा प्रोक्ता, तत्पश्चादेवाऽन्यत् सर्वं व्रतादिकम् । अहिंसाव्यतिरेकेण न किमपि व्रतं, न काऽपि क्रिया यथार्था-चरितार्था वा भवति । तत एव जिनवरैर्भाषितं यत्, अहिंसैवैकं व्रतम्, अन्यानि सर्वाणि व्रतानि तस्याऽहिंसाव्रतस्य रक्षणार्थं सन्तीति । उक्तं च- इक्कं च्चिय इत्थ वयं निद्दिटुं जिणवरेहिं सव्वेहिं ।।
पाणाइवायविरमणं अवसेसा तस्स रक्खट्ठा ॥१ एवं भारतदेशेऽहिंसा तु सर्वमान्यो निखिलदर्शनप्रणीतश्च धर्मोऽस्ति, अत आर्यधर्मोऽहिंसेति कथने न कोऽपि संशयावकाशः । तेनाऽहिंसाबलेनैव विश्वे वर्तमानायाः समस्ताया अपि संस्कृतेः सर्वोपरित्वं प्राप्तमार्यसंस्कृत्या । एतदृष्ट्यैवाऽन्येषां देशानां तुलनायां भारतो महान् श्रेष्ठश्च देशो मन्यते ।
___ अथेदानीमत्र तत्र सर्वत्र हिंसैव दरीदृश्यते, तथाऽपि हिंसायुगेऽप्येतस्मिन् १. एकमेवाऽत्र व्रतं निर्दिष्टं जिनवरैः सर्वैः ।
प्राणातिपातविरमणमवशेषाः तस्य रक्षार्थम् ॥
-
*
Jain Education International
For Private Versonal Use Only
www.jainelibrary.org