________________
34343434
कुर्यामिति धर्मसङ्कटमापतितमिति विमृशता मया तदैव दैवयोगादेकं स्थानं दृष्टम् । द्रुतमेव तत्र प्रविष्टोऽहम् । क्षणेन तत्रैव पूज्यश्रीरत्नकीर्तिमुनिना सह पूज्यपादश्रीशीलचन्द्रसूरिभगवन्तोऽप्यागतवन्तः ।
'किं करणीयम् ?' इति मया पृष्टम् ।
'अत्रैवोपविशाम' इति गुरुभगवद्भिर्व्याकृतम् ।
रत्नकीर्तिमुनिरुवाच
'प्रभो ! अद्य सप्तदशकिलोमीटरप्रमाणं गन्तव्यमस्ति' । 'गुरुजी' ! दीर्घो विहारमार्गोऽस्ति, अतो द्वादशात्मन आतापना सोढव्या भवेद्' इति मयोक्तम् ।
गुरुभगवन्त ऊचुः 'वयं साधव इति न विस्मर्तव्यं खलु । षड्जीवनिकायरक्षार्थं गृहादिकं सर्वमपि विहाय स्वेच्छया दीक्षाऽङ्गीकृता । अतो यत् किमपि स्यात् तत् सोढव्यमेव, न तु तथाऽऽचरणीयं येन संयमो विराधितः स्यात् । अतोऽत्रैवोपविशाम । सूर्योदये सति स्वत एव मिहिकाऽपसरिष्यति, पश्चाद्गमिष्यामः" इति ।
तथाऽस्त्विति विचार्याऽभ्रमवेक्षमाणा वयं सर्वे तत्रैव स्थितवन्तः ।
-
सर्वत्र मिहिकैव दृश्यमानाऽऽसीत् । किन्तु किञ्चित्कालगमनानन्तरं सहसैव दूरतो रक्तवर्णा स्वल्पप्रकाशस्याऽऽभा दृष्टा । यथा सङ्ग्रामे विपक्षसैन्यैस्स्वसेना यदा सर्वत आव्रियेत, बहिर्गमनस्य च न कोऽपि मार्गः स्यात्तदा तैस्साकं योद्धुं द्रुतमेव वीरसुभटो (प्रमुखसेनापतिः) यथा प्रविशेत्तथैव मिहिकाराजचमूभिर्निखिलगगने निरुद्धे व्याप्तसर्वाङ्गक्रोधाटोपादिव रक्तकायोऽरुणः प्रविष्टवान् । द्वयोस्सैन्ययोर्मध्ये भीषणं युद्धं प्रवृत्तम् । स्वबलेनाऽरुणोऽन्धकारं नाशितवान्, किन्तु न मिहिकाराजं पराजेतुमशक्नोत् । ततो मिहिकाराजसैन्यमवाप्तविजयस्याऽऽनन्देन नृत्यति स्म । तदैव विहितविपक्षचमूकिट्टीकरणप्रतिज्ञोऽपूर्वबलद्युतिसज्जीभूतसहस्रकिरणसहस्रमल्लालङ्कृतः सप्ताश्वान्वितरथारूढो रक्तकायस्सूर्यराज उदयाचलादागच्छत् संदृष्टः । उदयाचले हि प्रतिपलं तस्य सूर्यराजस्य कान्तिर्वृद्धिङ्गता दृश्यते स्म । सर्वदिक्षु स्वच्छायां प्रसारयन् देदीप्यमानस्सूर्यराजः प्रविष्टवान् । द्वयोः पार्श्वयोः स्थितान् परसैन्यान् घातयन् सम्राडिव मिहिकाच्छादितामभ्रसंहतिं प्रच्छेदयन्
Jain Education International
For Private &sonal Use Only
www.jainelibrary.org