SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ग्रन्थात् प्राक् श्रीचन्द्रविजयस्य 'संशोधकीयं सम्पादकीयं च', विजयहेमचन्द्रसूरेः 'अनारतं प्रचलतु भवतः संशोधनयात्रा', विष्णुकान्तस्य 'शब्दः ' 'शक्तिः ' च, सोमचन्द्रविजयस्य च 'रत्नाकरोऽनुपमो व्युत्पत्तिरत्नाकरः' विलसन्ति । ग्रन्थान्ते 'सार्थशब्दानुक्रमणिका', 'गुजरातीशब्दानुक्रमणिका', 'व्युत्पत्तिरत्नाकरटीकान्तर्गतानां श्लोकानामकाराद्यनुक्रमणिका', 'व्युत्पत्तिरत्नाकरटीकायां प्रमाणरूपेण प्रोद्धृतानां ग्रन्थानां ग्रन्थकाराणां च पृष्ठाङ्कपङ्क्त्यङ्कपूर्वकनामानि', 'बहुश उपयुक्तानां ग्रन्थानां सूची', 'अस्मिन् ग्रन्थे उपयुक्त - हस्तलिखितप्रतीनां परिचयः' च विराजन्ते । अत्र प्रतिपृष्ठम् अधोभागे पाठभेदा अपि शोभन्ते । टीकायामुद्धृतग्रन्थांशानां सन्दर्भनिर्देशोऽपि सर्वत्र ग्रन्थस्य गरिमाणं संवर्धयति । अभिधानचिन्तमणिनाममालायां शब्दानां लिङ्गनिर्देशो न विद्यते । कोशकारेण स्वयं 'लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् । ' ( अभिधान० १८) इत्यभिधीयते । कोशेऽत्र जैनत्वरक्षणं वर्तते । तद् यथा 'ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तः मुनिसुव्रतसुव्रतौ तु ॥ अरिष्टनेमिस्तु नेमिः वीरश्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः ॥' (अभिधान० २८-३०) कोशेऽस्मिन् केचन दाडिमादयः शब्दाः, अमर - त्रिकाण्डशेष- वैजयन्ती - इत्यादिगता अपि न सन्ति, किन्तु कुमारपालादयोऽप्रसिद्धा अपि विद्यन्ते । (अभिधान. ७१२ - ७१३) शब्दानां सङ्ग्रहोऽत्र रूढयौगिकमिश्रक्रमेण विद्यते । श्रूयताम् Jain Education International 'प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढ - यौगिक- मिश्राणां नाम्ना मालां तनोम्यहम् ||' (अभिधान० १) अस्य कोशस्य विविधाः टीका: सन्ति - (१) स्वोपज्ञवृत्ति: - श्रीहेमचन्द्रचार्यस्य, (२) टीका - कुशलसागररचिता, (३) सारोद्धारः - वल्लभगणे:, (४) टीका - साधुरत्नस्य, (५) व्युत्पत्तिरत्नाकरः- देवसागरगणे, (६) अवचूरि :- अज्ञातकर्तृका, (७) बीजकम् - हीरविजयसूरिशिष्यत्रयस्य, (८) रत्नप्रभा - वासुदेवरावस्य । ग्रन्थेऽस्मिन् सम्पादितायाः व्युत्पत्तिरत्नाकराभिधायाः टीकायाः कानिचिद् वैशिष्ट्यानि सन्ति (१) पाणिनि For Private Cersonal Use Only - www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy