________________
व्याकरणानुसारिणी व्युत्पत्तिरत्र राजते । " विदेहस्य राज्ञोऽपत्यं वैदेही । 'जनपदशब्दात् क्षत्रियादञ्' ४|१|१६८ || 'टिड्डाणञ्०' ४|१|१५|| ङीष् (ङीप् ) ।" (अभिधान० ७०३, व्युत्पत्तिरत्नाकर०) (२) विविधग्रन्थानां ग्रन्थकाराणामुल्लेखः - "पुंस्ययम्, यद् वैजयन्ती 'नामशास्त्रे निघण्टुः' (वैजयन्तीकोष: ३ / ६ / ३१) | क्लीबेऽयम्, यद् व्याडि : - 'अर्थात् निघण्टयत्यस्मान्निघण्टुः परिकीर्तितः ॥ पुंनपुंसकयोः स स्यात् ।' इति ।" (अभिधान० २५८, व्युत्पत्तिरत्नाकर०) (३) शब्दानां नानार्थत्वम् । (४) जैनागमानाम् उल्लेखः । (५) अर्थसाधकश्लोकानाम् उद्धरणम् । "यन्मनुः - 'निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्नेन स विप्रो गुरुरुच्यते ॥ (मनुस्मृतिः २ / १४२) । निषेको गर्भाधानविधि:।” (तत्रैव, ७७) (६) कोशानुक्तानामपि शब्दानां सङ्ग्रहणम् । " वरुणपाशोऽपि ।” (तत्रैव, १३५१) (७) भाषाशब्दानां प्रयोगः । " एकं 'दादा' इति ख्यातस्य ।" (तत्रैव, ५५७) (८) अनुक्तशब्दा अपि विशदीक्रियन्ते । "तन्त्रमपि । तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छेदे ॥" (तत्रैव, ८१३) (८) काव्यादीनामप्युदाहरणानि । “ संस्क्रियतेऽनेन संस्कारः । करणे घञ्, पुंस्ययम् । ‘निसर्गसंस्कारविनीत इत्यसौ' (रघुवंशम्, सर्ग : - ३, श्लो - ३५) इति रघुः । " (तत्रैव, १३७३) (१०) लिङ्गवचनादिनिर्देशश्च ।
इत्थं विविधवैशिष्ट्यविभूषितव्युत्पत्तिरत्नाकराख्या टीका मूलग्रन्थोपेता विद्वद्वरेण्यश्रीचन्द्रविजयेनाऽऽधुनिकग्रन्थसम्पादनविधिना सुसम्पादिता शोभतेतरामत्र । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैर्भाषाशास्त्रविद्भिश्च सर्वथा सङ्ग्राह्योऽस्ति । अतितरां भव्यतया भूरिपरिश्रमेण च मुद्रणादस्य ग्रन्थस्य मूल्यमपि समीचीनं वर्तते । अस्य ग्रन्थस्य प्रकाशनात् संस्कृतसमाजस्याऽपि महती सपर्या प्रकाशकमहोदयैर्विहिता । जयतु संस्कृतम्, संस्कृतिश्च । 'सूत्रैः पाणिनिसूत्रितैर्बहुविधग्रन्थांश्च संख्यावतः, साक्षीकृत्य यथामति व्यरचयं व्युत्पत्तिरत्नाकरम् । छाद्मस्थ्याल्लिखितं यदत्र वितथं स्यात् सूरिभिस्सूरतैः, संशोध्यं करुणां विधाय मयि तन्मात्सर्यमुत्सार्य च ॥"
(व्युत्पत्तिरत्नाकरकारस्य)
Jain Education International
For PrivatPersonal Use Only
www.jainelibrary.org