SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ .."O T . प्रास्ताविकम् निष्ठा सा वन्दनीयैव "चलन् हि शोभते साधुः” इति न्यायाद् दक्षिणात्यप्रदेशेष्वपि विहरणं । जातमस्माकम् । पुनश्च गूर्जरदेशं प्रति प्रत्यागता वयम् । किन्तु काचित् मधुरा स्मृतिरद्यापि चित्तमान्दोलयति आनन्दयति च । ___ संस्कृतप्रचुर: स प्रदेश: । बेंगलोरनगरे कार्यरतायाः संस्कृतभारतीसंस्थायाः साक्षात्कार: कृतोऽस्माभिः । संस्कृतनिष्ठं संस्कृतप्रीतिमयं संस्कृतसमर्पितं च वातावणं तत्राऽनुभूतम् । संस्कृतभाषाया यावच्छक्यं प्रचार एव तेषां लक्ष्यमस्ति । परन्तु प्रचारकार्यस्य व्यवसायीकरणं तु नैवाऽनुभूतमस्माभिस्तत्र । संस्कृतप्रचारकार्यमपि ते न व्यवसायं मत्वाऽपि तु स्वधर्मं मत्वा कुर्वन्ति । एतादृशस्य श्रवणमात्रेणापि रोमोद्गमो भवति तर्हि साक्षाद्दर्शनस्य तु का वार्ता ? दैवात् तादृशानां सन्निष्ठजनानां तेषां चाऽनन्यसंस्कृ तसेवायाश्च दर्शनस्य सौभाग्यमस्माभिः प्राप्तम् । दृक्सौहित्यकरो हृत्सन्तर्पश्चाऽयमनुभवः । __ 'आचरणात् सिद्धि'रिति न्यायात् ते स्वकीयगृहेऽपि परस्परं संस्कृतमाध्यमेनैव वार्तालापं व्यवहारं च कुर्वन्ति । तेषां बालका अपि तथैव व्यवहरन्ति । आश्चर्यमनुभूयते खल्वेतज्ज्ञात्वा ? सत्यम्, आश्चर्यमेव स्यात्, यतो देशकालानुगुणे वेशे समुत्सुका वयं त्वस्माकं मूलं वेशभूषाभाषादिकमपि विस्मृतवन्तस्तत्र संस्कृतशिक्षणस्यैतादृशी वार्ता त्वाश्चर्यमेव जनयेत् । कस्य वा पुरतः सा करणीया ? क्रियेत चेदपि भित्त्या शिरःस्फालनमिव निष्फलं दुःखदमेव वा स्यात् । भवतु - यदस्ति । तत्र प्रवर्तमाना कार्यप्रणालिर्व्यवस्था चाऽपि निरीक्षणीयाऽनुसरणीया च । पत्राचारमाध्यमेन सम्भाषणशिबिरमाध्यमेन च ते संस्कृतं पाठयन्ति । यथा विद्यार्थिनामुत्साहो वर्धेत तथा सरलया रीत्या सरसरीत्या च ते पाठयन्ति । अधुनैव 64*60TRISISTEISSISTRITION 4 + Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy