SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नदीपूरे भूनागो बाढवाहितवृक्षगतो मूषकैः । न तांस्तु हिंसति हिंसा स्वमृत्युत्रस्ते कथं नाम ॥४४॥ चातकं तु प्रेक्षस्व वर्षं तपतो व्याप्तौ द्वितीयेयम् । तस्य तृतीयापवर्गे वर्षणाऽध्येति नभःसलिलम् ॥४५॥ गोग्रामः सरसोऽधुना सुरभिस्वच्छघासग्रासजिष्णुः । स जिष्णुरिव द्वितीयो ग्रामं क्रान्तो बने चरिष्णुः ॥४६॥ कपिकुलं क्लिन्नलोम कुञ्जकोटरे स्वमभिरक्षितुकामम् । किञ्चिन्निस्तब्धमिव वृत्तिमाजगरी बत तनुते ૪છો तडागान्ते शफरिका नवजलपूरसंहृष्टा नृत्यन्ति । नीचा यथा धनलाभे निपानभूमिषु प्रमाद्यन्ति ૧૪૮ अगाधजलभक्कुटेशः सकृदुदानीयाऽऽत्मानं पश्यति । स्वस्थानं पुनः प्रति गौरवं हि मानिनोऽनवद्यम् ॥४९॥ भक्त हृदि साऽऽह्लादिनी श्रीराधा कलिन्दतनयातटगा । मृदुमधुर्वेणुस्वनो वज्रनादेऽपि कर्षति चोरः वर्षाश्रीधरणीमिमां सहस्रधारायज्ञोपवीतिनीम् । धत्तेव प्रमाणयितुं स्त्रीणामुपनीतिस्वाध्यायम्' ॥५१॥ वारिदवेलालभ्यं घनकृष्णं पयोधरं पामूश्य । संशयी पूच्छति हलामालिन्दे वर्षणनिश्चयम् ॥५२॥ नभोगर्जितजागृतः शिशुतुरुरजादिन्नः सचकितम् । बिभ्यन्नीक्षते तस्याः सान्त्वयन्मुखश्रियं निरीहः શરૂ सद्योवर्षाधारञ्चाऽऽशङ्कय दिनकरादर्शनाद्गृहिणी । इन्धनमन्तरानीय स्वस्थाऽनिलेन्धनसुखं नाऽस्याः ॥५४॥ १. पुराकाले तु नारीणां मौजीबन्धनमिष्यत इति स्मृतिः । गैस-चूल्लीति भाषायाम् । Jain Education International For Private & R onal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy