SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ . . JERI - प्रातरशन एव पञ्चशतप्रमितानां चटकानां जिह्वाया उपसेचनं (चटनी) विधायाऽभक्षयत्। - एवं विविधरीत्या स प्रतिदिनं नैकान् जीवानहिनत् । तादृशं हिंसकमकब्बरराजं - प्रतिबोध्य तेन सूरिणा स हिंसाया निवर्तितः, तथा तस्य राज्येऽपि स्थापिताऽहिंसा । * गुरोरुपदेशात्तेन राज्ञा 'पर्युषणा'महापर्वादिदिनेषु स्वकीये शासित प्रदेश 'अमारिघोषणो'- * द्घोषिता । तथा गुरोर्वाण्या स राजाऽतीव प्रसन्नो बभूव । तेन च स्वयमेव स्वजन्मदिने में पुत्रपौत्रादिजन्मदिनेषु तथा 'बकरीईद'दिनेऽपि निखिले शासितप्रदेशे 'अमारिघोषणा' प्रसाधिता । एवमेकस्मिन् वर्षेऽशीत्यधिकशतदिनप्रमाणा 'अमारिघोषणो'द्घोषिता तेन राज्ञा । श्रीहीरसूरिभगवत एतादृशं परं सत्त्वं निर्मलतां चारित्रनिष्ठां निःस्पृहतां च निरीक्ष्य प्रभावितेन तेन राज्ञा तस्मै गुरवे 'जगद्गुरुः' इति बिरुदं प्रदत्तम् । तस्मिन् र काले सर्वधर्मसंप्रदायानां बहवस्समर्था विद्वांसो गुरव आसन्, तथाऽनेके मुसलमीन- - * साधवः(फकीर) आसन्नेव । तथाऽपि न कस्मैचिदपि, अपि तु जैनगुरव एवैतादृशं * बिरुदं दत्तं, तदेव तद्गुरोर्महत्तां प्रतिष्ठां च दर्शयति । एवमेकेन जैनगुरुणा मुसलमीनराजस्य और शासनेऽप्यहिंसायाः प्रणालिका रक्षिता । इदानीमेकोनविंशतिशताब्देऽपि जिनमतप्रभावकस्समर्थः शासनसम्राट श्रीनेमि- र सूरीश्वरगुरुः बभूव । तेन गुरुणा गूर्जरसत्कस्य सौराष्ट्रान्तर्गतेषु ग्रामेषु समुद्रतटे च ** विहत्याऽनेके क्रूरा हिंसकजना हिंसायाः प्रतिनिवर्तिताः । तद्रूपेण चाऽऽर्यदेशेऽहिंसा - * प्रस्थापिता । एवं पूर्वतनकालादारभ्याऽद्यावधि जैना अहिंसायाः परम्पराया रक्षणमकुर्वन् । * साम्प्रतमपि विशेषतो जैना एव प्रवर्तमानां हिंसां निरोद्धं सततं प्रयतन्ते । अतो * जैनानामेतादृगहिंसानिष्ठावशादेव अद्याऽपि भारते निराधाराणां मूकानां प्राणिनां रक्षणार्थं - नैकेषु स्थलेषु पशुरक्षाशालाः ( पाञ्जरापोल) प्रचलन्ति । भारते प्रवर्तमानाभ्यस्ता- Y भ्योऽशीतिः प्रतिशतं पशुरक्षाशालानां निर्वहणं जैना एव कुर्वन्ति, न काऽप्यतिशयोक्तिरत्र। तेषां जीवानां रक्षार्थं जैनैरेव पुष्कलं धनमपि व्ययीक्रियते। इतिहास एतादृशान्युदाहरणान्यपि दृश्यन्ते यद्, दुर्भिक्षसमये केवलमेकेनैव जैनश्रेष्ठिना समस्तराज्यस्य पोषणं कृतमिति । एवं जैनानामेतादृशदृढनिष्ठावशादन्येषां जनानां चेतस्यप्यहिंसाया JA-C MJJAMAJMAJJAJAN TERRERAKERS Jain Education International For Priv 9 Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy