Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 18
________________ वादार्थसंग्रहः [ ३ भाग: पचन् अथ तत्र नामार्थयोरभेद इति नियमात् कर्तृवाचित्वमिति चेत् . चैत्र इत्यादावपि लकारस्य कर्तृवाचकत्वापत्तिः । अभेदस्योभयत्र तुल्यत्वात् । कीदृशोऽत्र नियमः नामार्थयोरभेद एवेति अभेदो नामार्थयोरेव वेति । आद्ये राज्ञः सुतस्य धनमित्यादौ व्यभिचारः, द्वितीये तु स्तोकं पचतीत्यत्र । ननु नामार्थधात्वर्थयोर्नामार्थयोश्च साक्षाद्भेदान्वयो नेत्येव नियमः । राज्ञः सुतस्येत्यादौ विभत्तयर्थसंबन्धद्वारान्वयो न स्यात् राजपुरुष इत्यत्र तु राजपदस्य राजसंबन्धिनि लक्षणयाऽभेद एव । प्राप्तोदकादावप्युदकपदस्योदककर्तृकप्राप्तिकर्मणि लक्षणा । उपकुम्भमित्यादौ कुम्भादिपदस्य कुम्भादिसमीपादौ, धवखदिरावित्यादौ तु द्वयोरपि प्रधानत्वेन परस्परं संबन्धाभावात् । एवं तर्हि पचतिकल्पमित्यादावुक्तव्युत्पत्तिबलादेव कर्तार्थेऽस्तु । नच तत्र नाम्नः समुदायस्यार्थ एव नास्तीति शङ्कयम्, पाचक इत्यादावपि तन्मते समुदायार्थविरहात् । तस्मान्नामजन्यबोधविषयत्वमेव नामार्थत्वम् । ४ किंच कर्तुरवाच्यत्वे पचति चैत्र इत्यादौ कर्तुरनभिधानात् तृती यापत्तिः । अथायमाशयः - अभिहितसंख्याके कर्तरि तृतीया । तद्यथा कर्तृकरणयोर्येकयोरित्यादीनामेकवाक्यतयाऽनभिहिते कर्तृगतैकत्वे इत्यर्थ इति चेदेवं तर्हि 'कृष्टपच्या ब्रीहयः' इत्यत्र कर्मकर्तरि कर्तृसंख्याभिधानाभावात्तृतीयापत्तिः । पाचको देवदत्त इत्यादी कृत्तद्धितसमासेपु संख्याभिधानाभावेनागतेः । नन्वनभिहिते कर्तृत्वे इत्यर्थोऽस्तु अस्ति च पाचक इत्यादावपि विशेषणतया कृतेरभिधानमिति चेन्न । कृष्णस्य कृतिरित्यत्र कृतेर भिहितत्वेन कर्तरि षष्ठयनापत्तेः। तण्डुलः पच्यते स्वयमेवेत्यादौ तण्डुलपदात्तृतीयापत्तेः तत्रापि कृतेरनभिधानात् । सिद्धान्ते तु कर्तुरभिहितत्वात्तत्र प्रथमा । किंच धातुनैव कृतेरभिधानात् देवदत्तेन क्रियत इत्यत्र तृतीयानापत्तिः । आश्रयत्वं तृतीयार्थ इति तु दुर्वचमनुशासनाभावात् । नन्वाख्यातस्याश्रयार्थत्वे बीजाभावः देवदत्तादेराधेयतया पाकादावन्वय संभवादिति चेन्न । नामार्थधात्वर्थयोः साक्षाद्भेदान्वयस्याव्युत्पन्नत्वात् । अन्यथा तण्डुलः पचतीत्यपि प्रयोगापत्तेः । कर्मतासंबन्धेन तण्डुलस्य पाकेऽन्वयसंभवात् । किंचाख्यातस्य कर्तृवाचित्वाभावे पचति चैत्र इत्यादावनुभवसिद्धस्य सामानाधिकरण्यस्यानुपपत्तिः । ततश्च पचन्ति चैत्र इति प्रयो 1 -

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122