Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 57
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । भागवर्जलक्षणादावभेः कर्मप्रवचनीयसंज्ञाविधायकात् 'अभिरभागे' इत्यनुशासनाद्वक्षमभि सिञ्चति इत्यादावभेः कर्मप्रवचनीयसंज्ञायां द्वितीया षत्वाभावश्च । बोधः पूर्ववत् । भागे तु यदत्र ममाभि स्यात्तद्दीयताम् । अत्र यच्छब्दो बुद्धिस्थत्वेन भागबोधकः । मत्संबन्धिभागकर्तृका एतदधिकरणिका सत्ता प्रेरणाविषयः(?)तत्कर्मकं दानमिति बोधः । । अपिः पदार्थसंभावनान्ववसर्गगर्दासमुच्चयेषु इत्यनुशासनादपिः कर्मप्रवचनीयः । सर्पिषोऽपि स्यात् । अपिः स्वद्योत्यबिन्दुदौर्लभ्यस्यापि द्योतकः । तथा च सर्पिरवयवबिन्दुकर्तृका तद्विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती संभावनाविषयः सत्तेति बोधः । उदकस्या(प्या)चामेदित्यादौ कर्मापेक्षः । तथा चोदकावयवबिन्दुकर्मिका तद्विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती संभावनाविषयो देवदत्तकर्तृकाचमनक्रियेति बोधः । अपि स्तुयाद्विष्णुमित्यत्र विष्णुकर्मिकैतत्कर्तृका शक्यत्वेन संभाव्यमाना स्तुतिरिति बोधः । धिगू देवदत्तमपि स्तुयादृषलमित्यत्र वृपलकर्मिका गा स्तुतिरिति बोधः । स्तुतिगीत्वे तत्कर्तुरपि गीत्वं फलति । एवंविधद्वितीयार्थनानात्वादाश्रयत्वं द्वितीयार्थ इति भूषणोक्तमपास्तम् । * तिबन्तधातूपस्थाप्यपाकघर्मिककर्मत्वानुभवानुकूलसुप्सजातीयत्वं द्वितीयात्वम् * । [चोरस्य हिनस्तीत्यत्र तिबन्तधात्वर्थे कर्मत्वप्रतिघातिकादौ कर्मत्वाद्यननुभावकत्वेऽपि तदनुभावकसजातीयत्वान्नाव्याप्तिः?]। वस्तुतः * संकेतविशेपसंबन्धेन द्वितीयापदवत्त्वमेव द्वितीयात्वम् * । एवं तृतीयादावपि । . इति द्वितीया । तृतीयार्थनिर्णयः। *कर्तुरिच्छाविषयप्रधानीभूतधात्वर्थव्यापाराश्रयत्वरूपस्वातन्त्र्याश्रयस्य कर्तृसंज्ञा विधायकेन स्वतन्त्रः कर्तेत्यनुशासनेन रामेण बाणेन हतो वालीत्यादौ रामस्य कर्तृसंज्ञायां सत्यां, तथा* कर्तुरिच्छाविषयाव्यवहितफलजनकव्यापाराश्रयत्वरूपसाधकतमत्वस्य करणसंज्ञाविधायकेन 'साधकतमं करणम् ' इत्यनुशासनेन बाणस्य करणसंज्ञायां सत्यामुभयत्रापि ' कर्तृकरणयोस्तृतीया ' इत्यनुशासनात्तृतीया । उभयत्राप्याश्रयत्वं तृतीयार्थः । कर्मत्वकर्तृत्वाधिकरणत्वानि विशेषणविशेष्यभाववदनियतानि न तु गोत्वादिवद्वस्तुविशेषनियतानि । अत: इच्छाविषयेति विशेषणम् । रामकर्तृकबाणव्यापारसाध्यप्राणवियोगाश्रयो वालीति बोधः ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122