Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 59
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । - ४५ पच्यते शय्यत इत्यादिकर्मभावाख्यातस्थले च क्रियाविशेषणतया तृतीयया प्रत्याय्यते इत्याहुः । तन्मते घटो भवतीत्यादी घटादीनां कर्तृत्वं न स्यात् । न च तत्र भाक्तं कर्तृत्वं, भाक्तत्वे घटेन भूयते इत्यत्र तृतीया न स्यात्तदुत्पत्तौ संज्ञाया एव नियामकत्वात् । अनेककल्पनापत्तेश्च । विस्तरस्तु अस्मत्कृताख्यातवादे द्रष्टव्यः। केचित्तु करणत्वं * कारकान्तरनिष्ठव्यापारद्वारा क्रियाहेतुत्वाभावे सति क्रियाहेतुत्वम् * । सत्यन्तेन कर्तृकर्मणोः करणनिष्ठव्यापारद्वाराऽधिकरणस्य कर्तृकर्मान्यतरनिष्ठव्यापारद्वारा संप्रदानस्य स्वानुमति(प्रकाशनेने )च्छोत्पादनद्वारा, अपादानस्य पतनप्रतिबन्धकसंयोगनाशकविभागद्वारा च क्रियाहेतुत्वादतिव्याप्तिवारणम् । कुठारेण छिनत्तीति भाक्तं करणत्वमित्युक्तं तत्र मुख्यत्वे संभवति भाक्तत्वे प्रमाणाभावात् । अन्ये तु व्यापारवदसाधारणं कारणं करणम् * । घटं प्रति कपालसंयोगवारणाय व्यापारवदिति, ईश्वरज्ञानवारणायासाधारणेति । असाधारणकारणत्वं च कार्यतानवछिन्नकार्यतानिरूपितकारणताश्रयत्वमिति वदन्ति । __ यत्तु भूषणे उक्तम्-करणतृतीयाया अप्याश्रयो व्यापारश्वार्थ इति । तन्न । काष्ठादिकरणनिष्ठव्यापारस्य स्थाल्याद्यधिकरणनिष्ठव्यापारवद्धात्वर्थत्वावश्यकत्वेन पुनस्तृतीयार्थत्वकल्पनस्यानुचितत्वात् । न च प्रत्ययार्थत्वमेवास्तु मास्तु धात्वर्थत्वमिति वाच्यम् । प्रत्ययार्थत्वे काष्ठानि पचन्तीत्यादौ काष्ठानां धात्वर्थव्यापाराश्रयत्वाभावेन कर्तृत्वानापत्तेः । दिवः साधकतमस्य युगपत्कर्मसंज्ञाकरणसंज्ञाविधायकाद् दिवः कर्म चेत्यनुशासनाद:रक्षान्वा देविता दीव्यतीत्यादौ द्वितीया तृतीया च । अक्षकरणकदेवनकर्तेति बोधः । नन्वत्र परत्वात्कर्तृकर्मणोः कृतीति षष्ठयाऽ. क्षाणां देवितेत्यस्यैवोचितत्वमिति चेन्न । कर्तृसाहचर्येण धात्वर्थाश्रयकर्मण्येव तत्प्रवृत्तेः । न चात्र परत्वात्तृतीयैव स्यादिति वाच्यम् । कार्यकालपक्षे कर्मणि द्वितीयेत्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्वितीयोपपत्तेः । प्रकृत्यादिशब्देभ्यः सर्वविभक्त्यर्थे तृतीयाविधायकात् 'प्रकृत्यादिभ्य उपसंख्यानम् ' इत्यनुशासनात्प्रकृत्या चारुरित्यादौ तृतीया । स्वाश्रयाधिकरणयावत्कालवृत्तिचारुत्ववानिति बोधः । प्रकृतिधर्मविशेषः । प्रायेण याज्ञिक इत्यादौ प्रायशब्दस्यावच्छेदकावच्छिन्नत्वराहित्यविशिष्टबाहुल्य

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122