Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२ ग्रन्थः ] शाब्दबोधप्रकाशिका । रिति चेन्नैवम् उपसर्गाणां वाचकत्वे उपस्येते इत्यत्र त्वया उपशब्दस्य प्रीतिर्धातोश्च व्यापारविशेषोऽर्थस्तयोश्च जन्यजनकभावः संसों वाच्यः । एवं च प्रीतिरूपफलस्य धात्वर्थत्वाभावेन हरिहरयोर्धात्वर्थफलाश्रयत्वाभावात्कर्मत्वाभावेन धातोरकर्मकत्वात्कर्मणि लकारो नोपपद्येत । । नन्वेवं चेदुपसर्गाणां द्योतकत्वमस्तु, अन्येषां निपातानां तु वाचकत्वमेवेति कुतो नाङ्गीक्रियत इति । न चोपसर्ग दृष्टान्तमाश्रित्यान्येषां निपातानां निपातत्वेन हेतुना द्योतकत्वं साधनीयमिति वाच्यम् । व्यभिचारसंशयेन निपातत्वस्य द्योतकत्वसिद्धिं प्रत्यप्रयोजकत्वादिति चेनैवम् । साक्षात्प्रभृतीनां वाचकत्वेऽपि साक्षाक्रियते हरिनमस्क्रियते गुरुरित्यादौ दर्शितरीत्या कर्मणि लकारानुपपत्तेरिति मनसिकृत्याह उपास्येते इत्यादि कर्मवाचक इत्यन्तम् । उपास्येते इति । अथोपास्यते हरिरिति प्रथमोपस्थितमेकवचनं विहाय केनाभिप्रायेण द्विवचनमुदाहृतमिति चेदुच्यते-उपसर्गस्य वाचकत्वेऽपि भावे प्रत्यये उपास्यते हरिरिति प्रयोग उपपद्यते । एकवचनस्य भावेऽपि साधुत्वादित्येकवचनं नोदाहृतम्। ननु भावे प्रत्यये कृते तत्र हरिपदस्य प्रथमान्तत्वानुपपत्तिः । संबन्धे षष्ठीप्रसङ्गात् । न चोपशब्दार्थप्रीतौ हरिपदार्थस्याधेयतासंबन्धेनान्वयान्न हरिशब्दात्षष्ठीप्राप्तिः । प्रातिपदिकार्थविशेष्यत्वेन संबन्धविवक्षायामेव पष्ठीविधानादिति वाच्यम् । राज्ञो धनमित्याद्यर्थे राजा धनमित्यादिप्रयोगविरहेण प्रातिपदिकार्थयोरभेदातिरिक्तसंवन्धेनान्वयस्याव्युत्पनतया हरिपदार्थस्योपशब्दार्थप्रीतावाधेयतासंबन्धेनान्वयासंभवादिति चेदत्रोच्यते-प्रातिपदिकार्थयोरभेदातिरिक्तसंबन्धेनान्वयोऽव्युत्पन्न इत्यत्र यदि निपातातिरिक्तत्वेन प्रातिपदिकं विशेष्यते तदा हरिपदार्थस्योपशब्दार्थप्रीतावाधेयतासंबन्धेनान्वय उपपद्यते इत्यभिप्रायेणैकवचनं नोदाहृतमिति । तथान्यत्रेति । अन्यत्र साक्षाक्रियते हरिनमस्क्रियते गुरुरित्यादिस्थलीयसाक्षादादौ । ___ अथैवं चेत्ते प्राग्धातोरित्यनुशासनाद्धातोः प्रानियतप्रयोगाणामुपसर्गाणामिवान्येषामपि गतिसंज्ञकनिपातानां द्योतकत्वमस्तु चप्रभृतिनिपातानां तु वाचकत्वमेवेत्यपि न वाच्यम् । भूयान्प्रकर्ष इत्याद्यर्थे भूयः प्रेत्यादिप्रयोगस्येव शोभन: समुच्चय इत्याद्ययें शोभनं चेत्यादिप्रयोगस्यापि विरहेण प्रादीनामिव चप्रभृतिनिपातानामपि द्योतकत्वस्यावश्यमभ्युपगन्तव्यत्वादित्याह-विशेषणेति । आदिना समुच्चयं जानातीत्याद्यर्थे
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122