Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 109
________________ १२ ग्रन्थः ] शाब्दबोधप्रकाशिका | ९५ तत्तत्प्रकृतेरेव लक्षणया तत्तदर्थपरत्वसंभवेन तत्तत्प्रत्ययानामपि तत्तदर्थे शक्तिर्विलुप्येत । स्फुटीकृतं च निपातानां वाचकत्वमव्ययं विभक्तीति सूत्रे भगवता भाष्यकारेण कैयटोपाध्यायेन च । यत्र तु क्वचिदनुभवति सुखं चैत्रः, सुखमनुभूयते चैत्रेण, गुरुमुपास्ते शिष्यः, उपास्यते गुरुः शिष्येणेत्यादौ वाचकत्वं न संभवति तत्र धातोस्तत्तदर्थे वृत्तिरन्वादिनिपातास्तु तात्पर्यग्राहकाः प्रणमतीत्यादौ तु प्राद्युपसर्गाः प्रकृष्टाद्यर्थस्य वाचका एव । रपटं चैतद्धातोः कर्मण इति सूत्रे भाष्यप्रदीपे इत्याहुः । इदमेव मतं न्याय्यमिति प्रतिभाति नः । एतन्मते अयं घटो नीलो न, चन्द्र इव मुखमित्यादौ प्रथमोपपत्त्यर्थमस्तिद्वयमध्याहर्तव्यम् । तत्र चायं घटो नीलो नेत्यत्रास्तिद्वयाध्याहारे अयं घटोऽस्ति नीलो नास्तीति भवति । तत्र नीलो नास्तीत्यत्रास्तेरसाधारणधर्मरूपो भावोऽर्थः । नञश्चात्यन्ताभावः । तथा च नीलत्वाभाववान् घटोऽस्तीति बोधः । चन्द्र मुखमित्यत्र त्वस्तिद्वयाध्याहारे चन्द्रोऽस्तीव मुखमस्तीति भवति । तथा च चन्द्रसत्तासदृशी मुखसत्तेति बोधः । सादृश्यं च कान्तिमत्त्वादि । तत्तद्धर्मसमानाधिकरणत्वेन कान्त्यादिमाद्भवनं वाऽस्तेरर्थः । यद्वा यथा सुखमनुभवति चैत्रः, सुखमनुभूयते चैत्रेण, गुरुमुपास्ते शिष्यः, उपास्यते गुरुः शिष्येणेत्यादौ कर्तृकर्मप्रत्ययोपपत्त्यर्थं धातोरनुभवोपासनाद्यर्थे वृत्तिमङ्गीकृत्यानूपादि उपसर्गाणां द्योतकत्वमङ्गीक्रियते । तथा अयं घटो नीलो न, चन्द्र इव मुखमित्यादावपि तिङ्समा - नाधिकरणत्वं विना प्रथमाया अनुपपत्तेस्तदुपपत्त्यर्थं नीलादिपदस्य नीलादिभिन्ने चन्द्रादिपदस्य तु चन्द्रादिसदृशे लक्षणामङ्गीकृत्य नञिवयोद्यतकत्वमङ्गीकार्यमित्येकमेवास्तिपदमध्याहर्तव्यमित्यदोषः । तथा च- वाचकत्वं निपातानामन्वयव्यतिरेकतः । कचित्फलानुरोधेन द्योतकत्वमपीष्यते ॥ इति स्थितम् । एवं च घटमानय न नीलं चन्द्रमिव मुखं पश्यतीत्यादावपि नञिवयोद्यतकत्वमङ्गीकृत्य शाब्दबोधस्य क्रियामुख्यविशेयकत्वमुपपादनीयमिति न काऽप्यनुपपत्तिरित्यलमधिकेन । विष्णुप्रियायां जातेन रुद्रनारायणात्सतः । महेशसदृशाद्रामकिशोरेण द्विजातिना ॥ १ ॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122