Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 112
________________ वादार्थसंग्रहः [ ३ भाग: अतिशब्दश्चेति । यद्यप्ययं प्रत्ययसमुदायस्तथाऽपि प्रकृतिभागावबोधपर - त्वात्प्रत्ययभागपर्यालोचनेऽनादरा देवमुक्तम् । अथवा पूर्वाचार्यैः कैश्चिदतिः प्रत्ययत्वेन कल्पित इति तदपेक्षयैतदुक्तमिति कैयटः । रथो गच्छति चैत्रो जानातीच्छति यतते द्वेष्टि विद्यते निद्रातीत्यादावाश्रयत्वे नश्यतीत्यादौ तु प्रतियोगित्वे निरूढलक्षणेत्याहुः, तदनुशासनविरुद्धम् । "( लः कर्मणि च भावे चाकर्मकेभ्यः " इत्यनुशासनेन हि कर्तरि लकारो विधीयते न तु कृतौ । न च तत्र चंकारलब्धं कर्तृपदं कर्तृत्वपरमिति वाच्यम् । तथा सति कृतोऽपि कृतिवाचकत्वापत्तेः । " कर्तरि कृत् " इत्यतो हि तत्र कर्तृग्रहणमनुवर्तते । नचेष्टापत्तिः । गन्ता चैत्रः पक्ता चैत्र: इत्यादावन्वयबोधानुपपत्तेः । न च गच्छति चैत्रः, पचति चैत्रः इत्यादावाख्यातार्थकृतेरिव गन्ता चैत्रः पक्ता चैत्रः इत्यादौ कृदर्थकृतेरपि चैत्रादिपदार्थे आश्रयतासंबन्धेनान्वय इति वाच्यम् । निपातातिरिक्तप्रातिपदिकार्थयोरभेदातिरिक्तसंबन्धेन साक्षादन्वयस्याव्युत्पन्नत्वात् । अन्यथा गमनानुकूलकृतिश्चैत्रो द्रव्यत्वं घट, इत्यादयोऽपि प्रयोगा आपद्येरन् । ९८ " ፡ किंच कृतां कृतिवाचकत्वे मित्रा पत्रीत्यादौ पत्रयादिपदस्य स्त्रीलिङ्गत्वमपि नोपपद्यते समानाधिकरणविशेषणस्यैव विशेष्यसमानलिङ्गकत्वनियमात् । अन्यथा राज्ञः स्त्रीत्यादौ राजादिपदस्यापि स्त्रीलिङ्गत्वापत्तेः । तस्मात्कृतः कर्तृवाचकत्वमवश्यमभ्युपगन्तव्यम् । तदनुरोधेन च कर्तरि कृदित्यत्र कर्तृपदस्य कर्तृत्वविशिष्टपरताSaश्यं वक्तव्या । तस्यैव च कर्तृपदस्य लः कर्मणि च " इत्यन्त्रानुवृत्तस्य कर्तृत्वपरताया असंभवात् कथमाख्यातस्य कृतिवाचकत्वमनुशासनसिद्धमिति । न च कृतः कर्तृवाचकत्वानुरोधेन कर्तरि कृदित्यत्र कर्तृपदस्य कर्तृत्वविशिष्टपरत्वमस्तु " लः कर्मणि च " इत्यन्त्रानुवृतस्य तु तस्य कर्तृत्वपरत्वमेवेति वाच्यम् । एकस्य कर्तृपदस्य सूत्रद्वये - Sर्थद्वयकल्पने गौरवान्मानाभावात् । गच्छन्तं पचन्तं पचमानं वा चैत्रं पश्येत्यादौ शतृशानजन्तस्यापि कृतिबोधकतापत्त्योक्तयुक्त्याऽन्वयबोधानुपपत्तेर्गच्छन्तीं पचन्तीं पचमानां वा मित्रां पश्येत्यादौ शतृशानजन्तस्य विशेष्यसमानलिङ्गकत्वानुपपत्तेश्च दुर्वारत्वात् । " लः कर्मणि च " इत्यादिना विहितस्यैव हि लटस्तिबा दिवच्छतृशानजावण्यादिश्येते ।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122