Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः
कृता या विदुषां प्रीत्यै शाब्दबोधप्रकाशिका ।
तत्रायं शाब्दबोधस्य क्रियामुख्यत्वनिर्णयः ॥२॥ ननु शाब्दबोधे कीदृशे स्थले कस्मिन्पदार्थे कस्य पदार्थस्यान्वय इत्याकाङ्क्षायामाहकाख्यातस्थले तत्र चैत्रादेः कर्तुराश्रये । तिङर्थेऽस्य तु धात्वर्थे व्यापारांशेऽन्वयो मतः ॥३॥ ग्रामादेः कर्मणस्तत्र द्वितीयार्थेऽन्वयोऽस्य तु । धातुवाच्ये फले तस्य तथा व्यापार इष्यते॥४॥
तत्र शाब्दबोधे आख्यातस्थले चैत्रो ग्रामं गच्छतीत्यादौ चैत्रादे: कर्तुस्तिङर्थे आश्रये अभेदसंबन्धेनान्वयः । तत्राश्रयस्य तिर्थत्वं तु "लः कर्मणि च भावे चाकर्मकेभ्यः” इत्यत्र चकारेण “कर्तरि कृत" इत्यतः 'कर्तरि' इत्यनुवृत्तेः । तत्रादेशानां तिवादीनां शक्तिमादेशित्वेन प्रकल्पितेषु लकारेषु प्रकल्प्यत इत्युक्तमिति बोध्यम् । आदेशानामेव तत्तदर्थे शक्तिर्न त्वादेशिनामिति वैयाकरणसिद्धान्तात् । कर्तृत्वं च धात्वर्थव्यापाराश्रयत्वं, तथा चोक्तं
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते , इति । यद्यपि क्रिया व्यापारः स च वृत्त्या धातूपस्थापितो धातुजन्यबोधमुख्य विशेष्योऽर्थस्तथाऽपि वृत्त्या धातूपस्थापितस्य धातुनोक्तेत्यनेनैव लाभादत्र क्रियापदं धातुजन्यबोधमुख्यविशेष्यार्थपरम् । तथा च धातुनोक्तक्रिय इत्यस्य वृत्त्या धातूपस्थापितधातुजन्यबोधमुख्यविशेष्यार्थाश्रय इत्यर्थः। ___ एवं च वृत्त्या तद्धातूपस्थापिततद्धातुजन्यबोधे मुख्यविशेष्यार्थाश्रय. त्वं तद्धात्वर्थकर्तृत्वमिति कर्तृलक्षणम् । 'स्वतत्र: कर्ता' इति सूत्रे स्वतन्त्रपदमप्येतत्परमिति बोध्यम् । फलाश्रयेऽतिव्याप्तिवारणाय तद्धातुजन्यबोधमुख्यविशेष्येति । मुख्यपदानिवेशेऽपि तत्रैवातिव्याप्तिरिति । मुख्यत्वमिह वृत्त्या तद्धातूपस्थापितार्थाविशेषणत्वम् । कर्माख्यातसमभिव्याहृतत्वेन तद्धातुर्विशेषणीयः । तेन गम्यते ग्रामो गन्तव्यो ग्राम इत्यादौ धातोः फलमुख्यविशेष्यकबोधजनकत्वेऽपि न क्षतिः । उपस्थापितान्तनिवेशाच पक्त्वा भुङ्क्ते इत्यत्र पाकसमानकर्तृकं पाकोत्तर
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122