Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२ ग्रन्थः]
शाब्दबायप्रकाशिका । शाब्दबोधप्रकाशिका ।
१०१ त्वाच्छक्यतावच्छेदके गौरवमिति वाच्यम् । प्रामाणिकगौरवस्यादोषत्वात् । भवन्मतेन रथो गच्छति चैत्रो जानातीत्यादौ आख्यातस्याश्रयत्वे लक्षणाया आवश्यकत्वेन लक्ष्यतावच्छेदकगौरवस्य त्वयाऽपि दुष्परिहरत्वात् । नहि शक्यतावच्छेदकगौरवं दोषो लक्ष्यतावच्छेदकगौरवं न दोष इत्यत्र प्रमाणमस्ति । किं चास्मन्मते आश्रयत्वस्याखण्डोपाधि. शक्तिरूपत्वेन न गौरवमिति । कर्तृत्वविशिष्टस्य प्रथमतो भासमानत्वात् । नत्वेतेन कर्तुः काख्यातार्थत्वं निराकृतमिति बोध्यम् । तथा सति दर्शितदोषाणां दुर्वारतापत्तेः। .
अथवा शक्तिः कारकमिति पक्षमाश्रित्य भाष्ये काख्यातस्य कर्तृत्वमर्थ इत्युक्तम् । तथा चोक्तं हरिणा
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।
क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुः ।। स्वाश्रये शक्त्याश्रये अर्थात्कर्तरि कर्मणि च समवेतानां तथा आश्रयान्तरे करणत्वादिशक्त्याश्रयभिन्ने कर्तृत्वशक्त्याश्रये कर्मत्वशक्त्याश्रये च समवेतानां क्रियाणामभिनिष्पत्तौ यत्सामर्थ्य तत्तक्रियानिष्पत्त्यनुकूला कर्तृत्वकर्मत्वकरणत्वादिरूपा शक्तिस्तत्साधनं कारकमित्यर्थः । शक्त्याश्रयस्य कारकत्वेन तद्व्याप्यकर्तृत्वादिना च व्यवहारः शक्तिशक्तिमतोरभेदविवक्षया । एवं च त्वं पचसीत्यादौ सामानाधिकरण्यमपि नानुपपन्नमित्यलमधिकेन । ___ अस्येत्यादिः अस्य तिर्थाश्रयस्य । धात्वर्थ इति । यद्यपि संयोगादिरूपं फलं व्यापारश्च धातोरर्थस्तथाऽपि काख्यातार्थाश्रयस्य स्वनिरूपिताधेयतासंबन्धेन व्यापारांश एवान्वयो व्युत्पन्नस्तदाश्रयस्यैव कर्तृत्वादिति भावः । . __ यत्तु-कथं पुनर्ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति प्रागुक्तभूवादिसूत्रभाष्याच्चैत्रो ग्रामं गच्छतीत्यादौ संयोगादिरूपं फलंगम्यादिधातोरर्थः ।व्यापारस्तु कर्तृप्रत्ययार्थः। धात्वर्थफलप्रत्ययार्थव्यापारयोर्जन्यजनकभावः संसर्गः । न च तत्र व्यापारस्य कर्तृप्रत्ययार्थताया अभ्युपगमात् व्यापारसत्त्वे फलानुत्पाददशायां पाको भविष्यतीतिप्रयोगस्य, व्यापार• विगमे फलसत्त्वे पाको विद्यत इति प्रयोगस्य चापत्तिः, भावविहितघञादीनामपि व्यापारोऽर्थस्तत्तद्विधिसूत्रे भावपदस्य व्यापारपरत्वात्
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122