Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 116
________________ १०२ वादार्थसंग्रहः [३ भागः कर्तृत्वं धात्वर्थानुकूलप्रत्ययार्थव्यापाराश्रयत्त्वम् । कर्मत्वं तु-परसमवे. तप्रत्ययार्थव्यापारजन्यधात्वर्थफलाश्रयत्वम् । महीरुहो विहगेन संयुज्यते, घट: पटेन संयुज्यते, जातिव्यगुणकर्मसु समवैति, घटो भवति श्वेत इत्यादौ धात्वर्थानुकूलव्यापाराप्रतीतेः संयोगादिमत्त्वमात्रप्रतीतेश्च प्रत्ययस्य व्यापारवाचित्वाभावाद्धातौ न सकर्मकत्वमिति मतं तदयुक्तम् । जिगमिषति-पिपक्षति-इत्यादौ प्रत्ययस्य व्यापारवाचित्वाभावेन सन्प्रत्ययानुपपत्तेरपचत्यपि विक्लित्तिरूपफलानुकूलादृष्टवति पचतीति प्रयोगप्रसङ्गाद्विभागरूपफलानुकूलपूर्वदेशसंयोगवति निश्चलेऽपि त्यजतीति प्रयोगप्रसङ्गाच्च । फलव्यारयोरुभयोर्धात्वर्थत्वेऽपि भूवादिसूत्रभाष्ये यत्फ. लमात्रकीर्तनं तत्फलस्योद्देश्यत्वेन प्रधानत्वान्न त्वेतेन व्यापारस्य धात्वर्थत्वं निराकृतमिति बोध्यम् । तथा सति कारकसूत्रभाष्यविरोधापत्तेश्च । तत्र हि व्यापारस्य धात्वर्थत्वमुक्तम् । तथा हि-अधिश्रयणोदकासेचनतण्डुलावपनघोपकर्षक्रियाः प्रधानस्य कर्तुः पाकः । अधिश्रयणोदकासेचनतण्डुलावपनैधापकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । तत्र तदापत्तिर्वर्तते एष प्रधानकर्तुः पाकः एतत्प्रधानकर्तुः कर्तृत्वं द्रोणं पचत्याढकं पचतीति कारके सूत्रे भाष्ये उक्तम् । अत्र व्यापारस्य, भूवादिसूत्रभाष्ये च फलस्य धात्वर्थत्वाभिधानात् फलव्यापारयोरुभयोर्धात्वर्थत्वं बहुभिः सुधीभिरङ्गीकृतमित्यवगन्तव्यम् । इति शाब्दबोधप्रकाशिका । १ इयत्येव शाब्दबोधप्रकाशिकोपब्धा । Satrana

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122