Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 114
________________ १०० वादार्थसंग्रहः [३ भागः कर्तृत्वे तृतीया भवति इति सूत्रार्थे चैत्रो ग्रामं गच्छति चैत्रस्तण्डुलं पचतीत्यादिषु चैत्रादिपदान्न तृतीयापत्तिराख्यातेन कर्तृत्वस्याभिहितत्वात् । गन्ता चैत्र इत्यादिषु कृदादिभिः कर्तुरभिहितत्वे कर्तृत्वमप्यभिहितमेवेति न तत्रापि चैत्रादिपदात्तृतीयांपत्तिशङ्केति चेदिदमपि न चारुतरमनुशासनस्थकर्तृपदस्य मुख्यार्थत्वसंभवे लक्षणाया अन्याय्यत्वात्। किं चाख्यातस्य कृतिवाचकत्वे त्वं पचसि, अहं पचामि, चैत्रः पचतीत्यादिषु युष्मदादेः समानाधिकरणत्वाभावेन 'युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः, अस्मद्युत्तमः, शेषे प्रथमः, ' इति सूत्रत्रयोक्ता पुरुषव्यवस्थापि नोपपद्यते । भिन्नाभ्यां रूपाभ्यामेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमप्रसिद्धम् । संभवादन्यादृशं तु न वार्यत इति तु बालप्रतारणम् । शब्दशास्त्रे समानाधिकरणपदस्य सर्वत्र तादृशशाब्दसामानाधिकरण्यविशिष्टपरतया दृष्टत्वादत्रान्यादृशसामानाधिकरज्यमादाय पुरुषव्यवस्थोपपदानस्यान्याय्यत्वात् ।। एवं चैत्रः पचतीत्यादौ चैत्रादिप्रातिपदिकस्य तिङ्समानाधिकरणत्वाभावेन ततः प्रथमापि नोपपद्यते। तिड्समानाधिकरणे प्रथमेति वार्तिकेन प्रातिपदिकस्य तिङ्समानाधिकरणत्व एव ततः प्रथमाविधानात् । तथा स पचति तौ पचतस्ते पचन्तीत्यादौ तिङन्तस्य कर्तृपदसमानवचनकत्वनियमोऽपि नोपपद्यते । समानाधिकरणविशेष्यविशेषणपदयोरेव समानवचनकत्वनियमात् । न च पचति पाकं करोतीति यत्नार्थककरोतिनाख्यातस्य विवरणात्तस्य यत्ने शक्तिरवधार्यत इति वाच्यम् । तत्र पाकपदेन धातोलिक्लित्तिरूपफलार्थकथनेन व्यापारवाचिना च करोतिना तस्य व्यापाररूपार्थकथनेनाख्यातेनैव चाख्यातार्थकथनेन यत्नार्थककरोतिनाख्यातस्य विवरणादिति हेतोरेवासिद्धेः । करोतेापारवाचित्वं न तु यत्नवाचित्वमित्यभियुक्तैरप्युक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोऽकर्मकतापत्ते हि यत्नोऽर्थ इष्यते । इति । ( यदि ? एतेन ) कृधातोर्यत्नार्थकत्वं विना किं करोतीति यत्नप्रश्न पचतीत्युत्तरं नोपपद्यते इत्यपास्तम् । कृञः क्रियावाचितया किं करोतीत्यस्य क्रियाप्रश्नत्वेन यत्नप्रश्नत्वाभावात् । कृयो यत्नार्थकताविरहात् । न चाख्यातस्याश्रये शक्तावाश्रयत्वस्य स्वरूपसंबन्धविशेषरूपत्वेन नाना

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122