SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १२ ग्रन्थः] शाब्दबायप्रकाशिका । शाब्दबोधप्रकाशिका । १०१ त्वाच्छक्यतावच्छेदके गौरवमिति वाच्यम् । प्रामाणिकगौरवस्यादोषत्वात् । भवन्मतेन रथो गच्छति चैत्रो जानातीत्यादौ आख्यातस्याश्रयत्वे लक्षणाया आवश्यकत्वेन लक्ष्यतावच्छेदकगौरवस्य त्वयाऽपि दुष्परिहरत्वात् । नहि शक्यतावच्छेदकगौरवं दोषो लक्ष्यतावच्छेदकगौरवं न दोष इत्यत्र प्रमाणमस्ति । किं चास्मन्मते आश्रयत्वस्याखण्डोपाधि. शक्तिरूपत्वेन न गौरवमिति । कर्तृत्वविशिष्टस्य प्रथमतो भासमानत्वात् । नत्वेतेन कर्तुः काख्यातार्थत्वं निराकृतमिति बोध्यम् । तथा सति दर्शितदोषाणां दुर्वारतापत्तेः। . अथवा शक्तिः कारकमिति पक्षमाश्रित्य भाष्ये काख्यातस्य कर्तृत्वमर्थ इत्युक्तम् । तथा चोक्तं हरिणा स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुः ।। स्वाश्रये शक्त्याश्रये अर्थात्कर्तरि कर्मणि च समवेतानां तथा आश्रयान्तरे करणत्वादिशक्त्याश्रयभिन्ने कर्तृत्वशक्त्याश्रये कर्मत्वशक्त्याश्रये च समवेतानां क्रियाणामभिनिष्पत्तौ यत्सामर्थ्य तत्तक्रियानिष्पत्त्यनुकूला कर्तृत्वकर्मत्वकरणत्वादिरूपा शक्तिस्तत्साधनं कारकमित्यर्थः । शक्त्याश्रयस्य कारकत्वेन तद्व्याप्यकर्तृत्वादिना च व्यवहारः शक्तिशक्तिमतोरभेदविवक्षया । एवं च त्वं पचसीत्यादौ सामानाधिकरण्यमपि नानुपपन्नमित्यलमधिकेन । ___ अस्येत्यादिः अस्य तिर्थाश्रयस्य । धात्वर्थ इति । यद्यपि संयोगादिरूपं फलं व्यापारश्च धातोरर्थस्तथाऽपि काख्यातार्थाश्रयस्य स्वनिरूपिताधेयतासंबन्धेन व्यापारांश एवान्वयो व्युत्पन्नस्तदाश्रयस्यैव कर्तृत्वादिति भावः । . __ यत्तु-कथं पुनर्ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति प्रागुक्तभूवादिसूत्रभाष्याच्चैत्रो ग्रामं गच्छतीत्यादौ संयोगादिरूपं फलंगम्यादिधातोरर्थः ।व्यापारस्तु कर्तृप्रत्ययार्थः। धात्वर्थफलप्रत्ययार्थव्यापारयोर्जन्यजनकभावः संसर्गः । न च तत्र व्यापारस्य कर्तृप्रत्ययार्थताया अभ्युपगमात् व्यापारसत्त्वे फलानुत्पाददशायां पाको भविष्यतीतिप्रयोगस्य, व्यापार• विगमे फलसत्त्वे पाको विद्यत इति प्रयोगस्य चापत्तिः, भावविहितघञादीनामपि व्यापारोऽर्थस्तत्तद्विधिसूत्रे भावपदस्य व्यापारपरत्वात्
SR No.034266
Book TitleVadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1915
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy