Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः च जानातीत्यादौ द्वितीयाद्यर्थकर्मादिपरिग्रहः । एतेनोपसर्गाणामिवान्ये. षामपि निपातानां द्योतकत्वमेव न वाचकत्वमिति सिद्धम् । अत एव घटमानय नीलं, चन्द्रमिव मुखं पश्यतीत्यादी घटमुखादिशब्दसमानाधिकरणत्वान्नीलचन्द्रादिपदाहितीयादयोऽप्युपपद्यन्ते ।
एवं च न पचति चैत्र इत्यादौ चैत्रकर्तृकपाकाभाव इत्यादिरूपशाब्दबोधस्य नर्थाभावमुख्यविशेष्यकत्वात्कथं शाब्दबोधस्य सर्वत्र क्रियामुख्यविशेष्यकत्वमित्यपास्तम् । तत्रापि ननिपातस्य द्योतकत्वेन धातोरेव लक्षणया पाकाद्यभावार्थकत्वेन शाब्दबोधस्य क्रियामुख्यविशेष्यकतायाः सूपपादत्वात् । क्रियापदेन तत्र धात्वर्थस्य ग्रहणादिति ।
परे तु उपसर्गा एव द्योतका अन्ये तु निपाता वाचका एव । न चैवं चेत्साक्षात्करोति नमस्करोति हरिमित्यादौ हर्यादेः कर्मतानुपपत्तिर्धात्वर्थफलाश्रयत्वाभावादिति वाच्यम् । तत्र लक्षणया साक्षात्पदस्य प्रत्यक्षविषयपरतया नमःपदस्य च स्वापकर्षावधित्वप्रकारकबोधविषयपरतया नीलं करोति घटमित्यादौ घटादेरिव तत्र हर्यादेः कर्मत्वसंभवात् । नापि समुच्चयः शोभन इत्याद्यर्थे च शोभनमित्यादिः प्रयोग: स्यादिति वाच्यम् । निपातार्थे शब्दान्तरार्थस्य तादात्म्यसंबन्धेनान्वयस्य प्रायेणाव्युत्पन्नत्वात् । 'कार्तिक्यादौ यन्न दानं तदत्यन्तविनिन्दितम् ' इत्यादौ कचिदेव तथाऽन्वयस्य दर्शनात् । नापि समुच्चयोऽस्ति समुच्चयं जानातीत्यर्थे चास्ति च जानातीत्यादिरपि प्रयोग आपद्येतेति वाच्यं, निपातार्थस्य कर्तृकर्मादिभावेनान्वयस्याव्युत्पन्नत्वात् । नापि घटस्य समुच्चयः, इह घटस्याभाव इत्यादाविव घटश्च, इह घटो नेत्यादावपि घटादिपदाषष्ठीप्रसङ्ग इति वाच्यं, निपातार्थे घटादिपदार्थस्य प्रतियोगितासंबन्धेनान्वयादेव तत्र घटादिपदाषष्ठीप्रसङ्गाभावात् , प्रातिपदिकार्थविशेष्यत्वेन संबन्धविवक्षायामेव षष्ठीविधानात् । प्रातिपदिकार्थयो/देनान्वयोऽव्युत्पन्न इत्यत्र तु प्रातिपदिकं निपातातिरिक्तत्वेन विशेषणीयमित्याहुस्तन्मते अयं घटो न नीलः, चन्द्र इव मुखमित्यादौ नीलचन्द्रादिपदस्य तिङ्समानाधिकरणत्वाभावात्प्रथमोपपत्त्यर्थं, घटमानय न नीलं, चन्द्रमिव मुखं पश्यतीयादौ नीलचन्द्रादिपदस्य घटमुखशब्दसमानाधिकरणत्वाभावात्ततो द्वितीयाद्युपपत्त्यर्थं च यत्नः कर्तव्य इति ।
एके त्वन्वयव्यतिरेकाभ्यां सर्व एव निपातास्तत्तदर्थवाचकाः । अन्यथा
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122