Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 106
________________ ९२ वादार्थसंग्रहः [ ३ भागः लक्षणा । मुख्यार्थस्य बाध इति। मुख्यार्थस्य तात्पर्यविषयान्वयबाध इत्यर्थः। ज्ञात इति शेषः । तेन कुन्ताः प्रविशन्तीत्यत्र कुन्तपदस्य कुन्तविशिष्टे छत्रिणो गच्छन्तीत्यत्र च छत्रिपदस्य छत्र्येकसार्थवाहिषु छत्र्यच्छत्रिषु न लक्षणानुपपत्तिः । प्रयोजनादिति तु 'प्रायिकम् । तेन कचिद्विनाऽपि प्रयोजनं लक्षणेति बोध्यम् । मुख्येनेति बाधितान्वयप्रतियोगित्वेनोपस्थितेन मुख्यार्थेन कारणभूतेनेत्यर्थः । अमुख्यार्थों लक्ष्यते इति अमुख्यार्थविषयकबोधानुकूलव्यापार इत्यर्थः । यदिति क्रियाविशेषणम् । सान्तरार्थनिष्ठो मुख्यार्थबाधग्रहादिव्यवधानेनोपस्थिते लक्ष्यार्थे स्वजन्यबोधविषयतासंबन्धेन स्थितः । एतेनात्र ग्राहककथनेन ग्राह्याया वक्तृतात्पर्यात्मिकाया लक्षणायाः सिद्धिः । यदित्यव्ययं ययेत्यर्थकम् । वृत्तावप्येवम् । आरोपिता वक्तृपुरुषेण लक्ष्यार्थविषतया जनिता क्रियावृत्तिरिति व्याख्यानं शक्यसंबन्धो लक्षणेति नैयायिकमतं चापास्तम् । लक्षणाया वृत्त्यन्तरत्वे मानाभावाद्गौरवात्फलाभावादर्पणे 'लक्षणा शक्तिरर्पिता' इत्यनेनारोपितशक्तेलेक्षणात्वस्य स्पष्टतयाऽभिधानाच्च । लक्षणांया वृत्त्यन्तरत्वमङ्गीकृत्य लक्षणाशक्तिरर्पितेत्यत्र शक्तिर्वृत्तिरिति व्याख्यातमेव । भाष्येऽपि सति तात्पर्ये सर्वे सर्वार्थवाचका इत्युक्तम् । लक्षणाया भेदास्तु काव्यप्रकाशादावुक्ता इह तु नोच्यन्ते ग्रन्थगौरवभयात्प्रकृतानुपयोगित्वाच्च । इदानीं प्रकृतमनुसरामः । किं च निपातानां वाचकत्वे समुच्चयः शोभनः, समुच्चयं जानाति समुच्चयो ज्ञायते इत्याद्यर्थे च शोभनं च जानाति, च ज्ञायते इत्यादिरपि प्रयोगः स्यात् । तथा घटस्य समुच्चय इह घटस्याभाव इत्यादाविव घटश्च इह घटो नेत्यादावपि घटादिपदाषष्ठी स्यादिति । तस्मान्निपातानां द्योतकत्वमेव न वाचकत्वमिति । अभियुक्तैरप्युक्तम्--- द्योतकाः प्रादयो येन निपाताश्चादयस्तथा । उपास्येते हरिहरौ लकारो दृश्यते यथा ॥ तथान्यत्र निपातेऽपि लकारः कर्मवाचकः । विशेषणाद्ययोगोऽपि प्रादिवञ्चादिके समः ।। येन हेतुना प्रादय उपसर्गा द्योतकास्तेनैव हेतुना तदृष्टया चप्रभृतयो निपाता अपि द्योतका एव न वाचकाः । अथोपसर्गाणामेव द्योतकत्वे प्रमाणाभावाद्वाचकत्वमेव तषां कुतो नेति, तथा च दृष्टान्तासिद्धि

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122