Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 105
________________ ९१ १२ ग्रन्थः ] शाब्दबोधप्रकाशिका । स्वलिङ्गाः कचित्तु लक्ष्यादन्यलिङ्गा इति रहस्यमिति तर्काचार्यः । स्मरन्तीति घृद्धा इति शेषः । भाष्येऽप्युक्तं लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति । सुरथो नाम राजेत्यत्र सुरथशब्दस्य वा सुरथशब्दप्रतिपाद्ये लक्षणा तदेकदेशे च सुरथशब्दे नामपदार्थस्याभेदसंबन्धेनान्वयः । तथा च नामाभिन्नसुरथशब्दप्रतिपाद्यो राजेत्यन्वयबोधः । शब्दानुशासनं नाम शास्त्रमित्यत्राप्येवम् । वृद्धिरादैच् इत्यत्र तु वृद्धिशब्दस्य वृद्धिसंज्ञके लक्षणेति न कुत्रापि काऽप्यनुपपत्तिरिति । एवं च अस्माच्छब्दादयमों बोद्धव्य इतीच्छैव शक्तिर्न तु पदपदार्थयोरितरेतराध्यासमूलको ग्राह्यः तादात्म्यसंबन्धविशेष इत्याचक्षते । वस्तुतस्तु अर्थाभिधाने शब्दानां योग्यता शक्तिरुच्यते । सा प्रसिद्धाऽप्रसिद्धा च द्विविधा परिकीर्तिता ।। आद्या गवादिशब्दानामर्थे गोत्वादिशालिनि । देवदत्तादिशब्दानां तत्र तत्रापुरातनी ॥ मुख्यार्थे यत्र शब्दस्य तात्पर्य नेति गम्यते । शक्तिरारोपिताऽन्यार्थे लक्षणा तत्र कथ्यते ॥ गङ्गायां घोष इत्यादौ गङ्गादिपदस्य मुख्यार्थनदीविशेषादौ तात्पर्याभावात्तत्तीरादौ तद्गतपावनत्वादिधर्मप्रतिपत्तये शक्यतावच्छेदकारोपात् शक्तिरारोपितेति प्रतीयते । सैव लक्षणेत्युच्यते । उक्तं च दर्पणे मुख्यार्थबाधे तद्योगे ययाऽन्यार्थः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ।। इति । अर्पिता वक्तृपुरुषेणारोपिता । तदवृत्तिधर्मस्य तद्वत्तित्वेन प्रतिपादनमारोपः । काव्यप्रकाशेऽपि मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।। अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया । कर्मणि कुशल इत्यादौ दर्भग्रहणाद्ययोगाद्गङ्गायां घोष इत्यादौ च गलादीनां घोषाद्यधिकरणत्वासंभवान्मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रुढितः प्रसिद्धेः, गङ्गातट इत्यादेः प्रयोगाद्येषां न तथा प्रतिपत्तिस्तेषां पावनत्वादीनां धर्माणां तथा प्रतिपादनात्मनः प्रयोजनाच मुख्येनामुख्यार्थो लक्ष्यते यत्स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122