Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः
अथवा एकाक्षरपदस्यकाक्षरप्रतिपाद्ये लक्षणा । तदेकदेशे च एकाक्षरे ओमित्यस्याभेदेनान्वयः । वस्तुतस्तु ब्रह्मपदस्य ब्रह्मप्रतिपादके लक्षणेत्यदोषः । रामेतिब्यक्षरं नाम मानभङ्गः पिनाकिन इत्यत्र नामपदस्य नामप्रतिपाद्ये लक्षणा तदेकदेशे च नाम्नि ब्यक्षरपदार्थस्य रामेतीत्यस्य चाभेदेनान्वयः । तथा च रामस्वरूपब्यक्षराभिन्ननामप्रतिपाद्यः पिनाकिनो मानभङ्ग इत्यन्वयबोधः । ननु नामशब्दस्य लक्षणया नामप्रतिपाद्यार्थकत्वे मानभङ्गशब्दसमानाधिकरणत्वात्तस्य पुल्लिङ्गत्वं कथं न स्यात् । समानाधिकरणविशेषणस्य विशेष्यसमानलिङ्गत्वनियमात्। न चानियतलिङ्गसमानाधिकरणविशेषणस्यैव विशेष्यसमानलिङ्गत्वनि. यमः । कथमन्यथा वेदाः प्रमाणं शब्दः प्रमाणमित्यत्र प्रमाणशब्दस्य न पुंलिङ्गत्वमिति । उक्तं च रत्नमालायाम्.
विशेषणे समानार्थे विशेष्यस्य विभक्तयः ।
जहल्लिङ्गे तु तल्लिङ्ग संख्याऽप्युत्सर्गतस्तथा । इत्यत्र सूत्रे पुरुषोत्तमविद्यावागीशेन-अजहल्लिङ्गे तु न विशेष्यलिङ्गं यथा द्रव्यं घटो व्यक्तिर्जात्याश्रयः स्त्री रत्नं विद्या धनं प्रमाणं शब्द इत्यादीति । कातन्त्रपरिशिष्टकारेणापि विशेष्यवदेकाधिकरणस्य प्रायेणेत्यत्र सूत्रे नियतलिङ्गानामसंभवे व्यत्ययः । शेषो यवागू: शेष यवागू: अर्थो भाण्डम् अर्धः शिखासंबाधः शालासंबाधो वर्त्मसंबाधं बृहदपि तद्वद्वभूव वर्मेत्यपि पठन्ति । प्रकाण्डं युवतिः आदिः कलत्रं गुणः प्रधानम् , उपसर्जनं स्त्री । संभवे तु शेष दधि शेषः ओदन इत्युक्तम् । असंभवे विशेष्यगतलिङ्गग्रहणासंभवे इतिगोपीनाथतर्काचार्यः । एवं च प्रकृते नामशब्दस्य नियतलिङ्गत्वेन पुल्लिङ्गमानभङ्गशब्दसमानाधिकरणत्वेऽपि न स्वलिङ्गपरित्याग इति वाच्यम् । नामशब्दस्यात्र लाक्षणिकत्वाल्लाक्षणिकस्य तु नियतलिङ्गस्यापि भिन्नलिङ्गशब्दसमानाधिकरणस्य स्त्रलिङ्गपरित्यागदर्शनाद्यथा कोठुनेऽरण्याय शिरो मे श्रीति (?) नाशङ्कनीयम् । नियतलिङ्गस्य लाक्षणिकस्य भिन्नलिङ्गसमानाधिकरणत्वेन स्वलिङ्गपरित्यागस्य काचित्कत्वात् । तथा चोक्तं कातन्त्रपरिशिष्टे-औपचारिके कचित्स्वलिङ्गं कुन्तेनदं स्त्रिया यष्टया पुरुषेण क्वचिदन्यथा क्रोष्टुने अरण्याय शिरो मे श्रियशो मूर्खमिति भाष्यम् (?) । अतो हि स्मरन्ति लिङ्गस्य लोकाश्रयत्वादिति । औपचारिक इति औपचारिकाः प्रायशः
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122