Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 102
________________ ८८ वादार्थसंग्रहः . [३ भागः बोध्यः । तेनोत्तरपदार्थप्रधानः समासस्तत्पुरुष इति तत्पुरुषलक्षणस्य न तत्राव्याप्तिरिति । न च निपातानां द्योतकत्वे तेषामर्थवत्त्वाभावेन प्रातिपदिकत्वाभावात्तेभ्यः सुबुत्पत्तिर्न स्यात् । ततश्च हरो हरिश्च ते सेव्या उमोमेशश्च मे गतिरित्यादौ चप्रभृतिनिपातस्य पदत्वाभावेन तदुत्तरस्य युष्मदस्मदोः पदस्य तेमेप्रभृत्या.......................................... (?) चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तेनोंपसर्गनिपातयोः ॥ तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतको तौ तु वाचकः स विचार्यते ।। इति । उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ।। । इति वृद्धोक्तावुपसर्गपदं निपातस्योपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यमिति कोण्डभट्टः । चतुर्विधे इति । तिङन्तसुबन्तोपसर्गनिपातरूपे । नोपसर्गनिपातयोरिति । अत्रोपसर्गस्य पृथगुपादानं गोबलीवर्दन्यायेन । व्यापारो वृत्तिः सा च शक्तिलक्षणान्यतररूपा । तत्र शक्तिरस्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छेति प्राचीननैयायिकाः । नव्यनैयायिकास्तु अस्माच्छन्दादयमों बोद्धव्य इतीच्छा शक्तिर्नत्वीश्वरेच्छा । तेनाधुनिकसंकेतशालिनां देवद. त्तादिसंज्ञाशब्दानां तत्तद्व्यक्तिविशेषे गुणवृद्धयादिशब्दानां च तत्तद्वर्णविशेषे शक्तिरस्त्येवेत्याहुः । नागेशभट्टमतानुयायिनस्तु शक्तेरिच्छात्मकत्वे अयं शब्दोऽस्मिन्नर्थे शक्त इति व्यवहारानुपपत्तिः शब्दस्येच्छाश्रयत्वाभावात् । तस्माच्छक्तिः पदपदार्थयोः संबन्धविशेषः । स च वाच्यवाचकभावरूपः । तथा चोक्तं संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मकः । योऽयं शब्दः सोऽर्थों योऽर्थः स शब्द इति । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव संकेतस्य शक्तिबोधकत्वं दर्शितम् । संकेतग्रहप्रकारमाह न्यायवाचस्पत्ये-सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्तद्व्यवहाराचास्मदादीनामपि सुग्रहस्तत्संकेत इति । सुग्रह इति । शोभनो ग्रहो यस्येति सुग्रहो नतु सुखेन गृह्यत इति सुग्रहः, खलर्थयोगे षष्ठयप्राप्तेः । तादात्म्यं च तदभिन्नत्वेन व्यवहार्यत्वं, तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽर्थः

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122