Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१२ ग्रन्थः] शाब्दबोधप्रकाशिका । त्यर्थ यथासंभवं क्रियाध्याहारः कर्तव्य इति वार्तिककाराशयात् । अथवा सन्तीत्येवाध्याहार्य कालस्त्वविवक्षितः । वर्तमाने लडित्यत्र वर्तमानपदस्य भूतभविष्यद्भिन्नपरत्वाल्लटो नानुपपत्तिः । प्रतीयमानभवनं वाऽस्तेरर्थः । अयं घटो नीलो न, चन्द्र इव मुखमित्यादौ तु नीलादिपदं नीलभिन्नपरम् । चन्द्रादिपदं च चन्द्रादिसदृशपरम् । नजिवौ तु द्यौतको, निपातत्वादुपसर्गवदिति । नीलचन्द्रादिपदानामपि तत्र तिङ्सामानाधिकरण्यं सूपपादमेव । न चोपसर्गाणामेव द्योतकत्वे प्रमाणाभावादृष्टान्तासिद्धिरिति वाच्यम् , सुखमनुभवति सुखमनुभूयते गुरुमुपास्ते गुरुरुपास्यते इत्यादौ कर्तरि कर्मणि च लकारोपपत्त्यर्थ धातोस्तत्तदर्थे वृत्तेरावश्यकत्वेनोपसर्गाणां द्योतकताया एव युक्तत्वात् । न च तत्रानुभूप्रभृतिसमुदायस्यैवानुभवाद्यर्थवाचकत्वं धातुत्वं च। तथा च सुखमनुभवति चैत्र इत्यादौ, चेत्रादेर्धात्वर्थव्यापाराश्रयत्वेन कर्तृत्वात्सुखमनुभूयत इत्यादौ च सुखादेर्धात्वर्थव्याप्यत्वेन कर्मत्वाकर्तरि कर्मणि च लकार उपपद्यते इति न भूप्रभृतिधातोस्तदर्थपरत्वमङ्गीकृत्योपसर्गस्य द्योतकत्वमङ्गीक्रियते इति वाच्यं, गौरवात् । भूवादयो धातव इत्येतेन भ्वादिगणपठितानामेव धातुसंज्ञाविधानात् अनुभूप्रभृतीनां गणे पाठाभावेन धातुत्वासंभवाच । न च बहुलमेतन्निदर्शनमित्यस्य दशगणीपाठो बहुलमिति व्याख्यानपक्षे चुलुम्पादिवदपठितानामप्यनुभूप्रभृतीनां गणे पाठमङ्गीकृत्य धातुत्वमङ्गीकार्यमिति वाच्यम् । अन्वभवदनुबुभूषतीत्यादावद्विर्वचनव्यवस्थानुपपत्तेरनुवभूवेत्यादौ धा. तोरनेकाच्त्वेनाम्प्रत्त्ययप्रसङ्गाच्च । तस्मात्तत्र तद्धातोरेव लक्षणया तत्तदर्थपरत्वमुपसर्गाणां तु द्योतकत्वमिति सिद्धम् । अत एव त्रिलोचनदासेनापि कातत्रवृत्तिपञ्जिकायां देवदेवं प्रणम्यादाविति श्लोकव्याख्याने प्रणम्येति प्रशब्देन प्रकर्षार्थों द्योत्यत इत्युक्तम् । तत्र नमधातुरेव लक्षणया प्रकृष्टनमस्कारपरः प्रोपसर्गस्तु तात्पर्यग्राहक इति तदाशयः । इत्थं चोपसर्गाणां द्योतकत्वे सिद्धे तदृष्ट्याऽन्येषामपि निपातानां द्योतकत्वमेव न तु वाचकत्वमिति सिद्धम् । अत एव भट्टोजिभट्टेनापि शब्दकौस्तुभे अथ शब्दानुशासनमित्यत्राथशब्दः प्रारम्भस्य द्योतको न तु वाचको निपातत्वादुपसर्गवदित्युक्तम् । तत्र शब्दानुशासनपदमेव लक्षणया शब्दानुशासनप्रारम्भपरमथशब्दस्तु तात्पर्यग्राहक इति तदाशयः । आरोपितो ब्राह्मणोऽब्राह्मण इत्यादौ नसमासे उत्तरपदार्थप्रधानत्वं च पूर्वपदस्य नग्निपातस्य द्योत्यार्थापेक्षया
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122