Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 99
________________ १२ ग्रन्थः ] शाब्दबोधप्रकाशिका | यायाः कर्तृकर्मभावेन क्रियान्तरेणान्वयं प्रत्याकाङ्क्षा स्वीक्रियते, फलानुरोधेन तस्याः कल्पनीयत्वादित्याशयः । ननु क्रियायाः साध्यरूपत्वात्कथं क्रियान्तरं प्रति तस्याः कर्तृकर्मभावः सिद्धं हि कारकं भवतीति नाशङ्कनीयम् एकं प्रति साध्यस्याप्यर्थस्यापरं प्रति साधनत्वसंभवात् । सार्वधातुके यगितिसूत्रे क्रिया क्रियासमवायं न गच्छति पचति पठतीत्येतद्भाष्यव्याचक्षाणेन कैयटोपाध्यायेनाप्येवमुक्ते तदर्थप्रतिपादिका हरिकारिकाऽपि दर्शिता तथाहि-- क्रिया क्रिययेति । ननु भवति पचति, पश्य मृगो धावतीति कर्तृकर्मभावेन क्रिया क्रियया संवध्यत एव । एवं तर्हि करणादिरूपेण समवायं न गच्छतीति विवक्षितम् । ननु साध्यत्वात्क्रियायाः कथं क्रियान्तरं प्रति कर्तृकर्मभावः त्रिभेदादेकस्याप्यर्थस्य साध्यसाधनभाव संबन्धसंभवाददोषः । तदुक्तं हरिणा यत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति ॥ मृगो धावति पश्येति साध्यसाधनरूपता । तथा विषयभेदेन सरणस्योपपद्यते ॥ इति । द ८५ भवति पचतीति एककर्तृकवर्तमानकालवृत्तिपाककर्तृकभवनमित्यन्वयबोधः । पश्य मृगो धावतीति मृगाभिन्नैककर्तृकवर्तमानकालवृत्तिधावनकर्मकं मदिच्छा विषयभूतं त्वत्कर्तृकं दर्शनमित्यन्वयबोधः । करणादीति । एतेन तिङन्तस्य तिङन्तविशेषणत्वाभ्युपगमे पुत्रजन्मना पिता हृष्यति, तन्तुसंयोगात्पटो जायते इत्यादिवत् पुत्रो जायते पिता हृष्यति, तन्तवः संयुज्यन्ते पटो जायते, इत्यादेरप्येकवाक्यत्वमापद्येत, अत्रापि करणत्वादिसंबन्धेन तिङन्तार्थस्यापरतिङन्तार्थेऽन्वय संभवादित्यपास्तम् । तिङन्त - क्रियायास्तिङर्थेऽभेद संबन्धेन धात्वर्थे तु कर्मतासंबन्धेनैवान्वयस्य व्युत्पन्नत्वात् । एवं च — अभूतो भावश्च विपदैरभिधीयते । इति वाक्यपदीयोक्तं तिङन्तक्रियाया असत्त्वभूतत्वं करणादिभावेन क्रियान्तरानन्वयित्वरूपं लिङ्गसंख्यानन्वयित्वरूपं वा बोध्यम् । किं च चैत्रो ग्रामं गच्छतीत्यादिशाब्दबोधस्य शाब्दबोधत्वेनापि क्रियामुख्यविशेष्यकत्वसिद्धिः । तथाहि चैत्रो ग्रामं गच्छतीति शाब्दबोधः

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122