Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 98
________________ वादार्थसंग्रहः [ ३ भाग: धानसामर्थ्यादेव द्वितीया । एवं तत्र भव इत्यादिविषये सप्तम्याद्यपीति शेखरकारः । एवं चाख्यातस्य क्रियाप्रधानत्वे न काप्यनुपपत्तिरिति । किंच शाब्दबोधस्य क्रियामुख्य विशेष्यकत्वमङ्गीकुर्वतां भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदित्येतद्विषयकं पचादयः क्रिया भवतिक्रियायाः कत्र्र्यो भन्वतीति भूवादिसूत्रभाष्यमप्यनुकुलम् । नह्येतद्भाष्यत्रोधितमुक्तस्थलेषु पचादिक्रियाणां भवतिक्रियाकर्तृत्वं शाब्दबोधस्य प्रथमान्तार्थमुख विशेष्यकत्वमूरीकुर्वतां मत उपपद्यते । न च तन्मतेऽपि भवतिपचतीत्यादिषु भवतिपदलभ्यस्य भवनकर्तृत्वस्याश्रयतासंबन्धेन, भवनकर्तुऽभे इसंबन्धेन, पचादिक्रियास्वन्वयात्पचादिक्रियाणां भवतिक्रियाकर्तृत्वमुपपद्यत इति वाच्यम् । तन्मते धात्वर्थविशेष्यतापन्नाख्यातार्थस्य प्रथमान्तपदोपस्थाप्य एवान्वयाद्भावनायाः साधनस्य वा विशेष्यत्वेनान्त्रयोग्यः कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्य इति तेषां सिद्धान्ताद्धात्वर्थ विशेष्याख्यातार्थविशेष्यतापन्नस्य पदार्थान्तरे विशेषणत्वेनान्वयस्याव्युत्पन्नत्वाद्भवतिपदार्थविशेष्यतापन्नपचादिक्रियाणां तिङर्थेऽन्वयानुपपत्तिश्च । भवति पचतीत्यादिषु प्रतीयमानभवनं भवतेरर्थस्तेन भवति पक्ष्यति भवत्यपाक्षीदित्यत्र भविष्यदतीतपाकभवनस्य वर्तमानत्वाभावेऽपि न क्षतिस्तत्प्रतीतिविषयताया वर्तमानत्वस्य सत्त्वात् । एतद्भाध्यप्रमाणबलत: कालाविवक्षायामपि कचिल्लट् भवतीत्यप्याहुः । एवं च तिङन्तं तिङन्तस्य विशेषणं न भवतीत्यपास्तमुक्तभाष्येण तिङन्तस्यु विशेषणताया बोधितत्वात् । वृद्धैरप्युक्तम् ८४ सुबन्तं हि यथानेकं तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥ इति उक्तभाष्यव्याख्याने कैयटोपाध्यायेनाप्युक्तम् । नन्वन्यत्रोक्तं तिङभिहितो भावः क्रियया समवायं न गच्छति, नहि भवति पचतिपटतीति । ततश्च तेनैतद्विरुध्येत । अत्राहुः कर्तृकर्मभावेन क्रिया आख्यातकिया संवध्यत एव । भवति पचति, पश्य मृगो धावतीति । करणादिभावेन तु न संबध्यते तथा प्रयोगादर्शनादिति । अन्यत्र सार्वधातुके गत्येतत्सूत्रभाष्ये । समवायं संबन्धं न गच्छति न प्राप्नोति । आकाङ्क्षाविरहात् क्रियान्तरस्य विशेषणं न भवतीत्यर्थः । पचति पठतीति सामानाधिकरण्यसंबन्धेनान्वयाभिप्रायेण । कर्तृकर्मभावेनेति । आख्यातक्रि

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122