Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 97
________________ १२ ग्रन्थः] शाब्दबोधप्रकाशिका । पचतो धनमित्येवं तिङापि स्याद्धनान्वयः । , क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ।। इति किं च भगवद्भाष्यकारदर्शितयुक्तेरप्याख्यातस्य क्रियाप्रधानत्वमवगम्यते । तथाहि-कथं ज्ञायते क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामेति । यत् क्रियां पृष्टस्तिकाचष्टे-किं देवदत्तः करोति ? पचतीति । द्रव्यं पृष्टः कृताचष्टे । कतरो देवदत्तः यः कारको हारक इति रूपप्सूत्रे भाष्ये उक्तम् । किं देवदत्तः करोतीति द्रव्यं पृष्टः करोतिश्च क्रियासामान्यवचनः, तत्र विशेषपरिज्ञानाय किंशब्दः क्रियाविशेषणं प्रवर्तते । क्रियाविशेषणत्वाच किमित्येतहितीयान्तं नपुंसकं च । प्रकरणादिवशाच्च क्रियाप्रश्नावगतिः । गुणद्रव्यविशेषस्यापि प्रश्नस्य संभवात् । वायकः किं शुक्लं वस्त्रं करोत्यथ कृष्णं, तथा किं शाटकं करोत्यथ प्रावारकमिति । द्रव्यं पृष्ट इति । यद्यपि यः पचतीति तिङन्तेनाप्युत्तरं भवति नथाऽपि सर्वनाम्ना परामृश्य पाकक्रियायाः यः कर्ता स देवदत्त इत्यभिधानात् केवलेनाख्यातेनोत्तरस्यादानादाख्यातस्य साधनप्रधानत्वाप्रसङ्गः । पदान्तरेण हि द्रव्योपलक्षणाय गुणभावं क्रिया नीयते इति कैयटः । अथाख्यातस्य क्रियाप्रधानत्वे तदधीते तद्वेदेत्यादिसूत्रविहितागादिप्रत्ययान्तवैयाकरणादिपदस्य व्याकरणकर्मकाध्ययनाद्यर्थकत्वमेव स्यान्न तु तदाश्रयार्थकत्वमिति । तथा च सति वैयाकरणः पुरुष इत्यादौ वैयाकरणादिपदार्थस्य व्याकरणकर्मकाध्ययनादेराश्रयतासंबन्धेनैव पुरुपादिपदार्थान्वयो वाच्यः। स च न संभवति निपातातिरिक्तप्रातिपदिकार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नत्वात् । अन्यथा पाकश्चैत्रो व्याकरणाध्ययनं पुरुष इत्यादिरपि प्रयोग आपद्येत । तत्राप्याश्रयतासंबन्धेन पाकव्याकरणाध्ययनादिपदार्थस्य चैत्रपुरुषादावन्वयसंभवादिति चेदुच्यते । अधीत इत्यादौ लौकिकप्रयोगे क्रियाप्रधानत्वेऽपि सौत्रे साधनमेव प्रधानत्वेन विवक्षितम् । वैयाकरणादिपदस्य व्याकरणकर्मकाध्ययनादिकर्तयेव शिष्टैः प्रयुक्तत्वात् । फलानुरोधाच्च कल्पनाया इति । तदधीत इतिसूत्रे शब्देन्दुशेखरकारेणाप्यधीत इत्यादीनां लौकिकप्रयोगे क्रियाप्रधानस्वेऽप्यत्र कारकप्रधानतेत्युक्तम् । एतदभिप्रायेणैव तत्र सूत्रे मनोरमाकारेणापि द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यादिति व्याख्यातम् । तद्धितार्थस्य क्रियात्वाभावेऽप्यलौकिके द्वितीयान्तात्प्रत्ययवि.

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122