Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 95
________________ शाब्दबोधप्रकाशिका १२. सेविता सर्वगीर्वाणैः सेवकाभीष्टदायिनी । भव्याय भवतां नित्यं भवताद्भवभामिनी ॥ १ ॥ नत्वा शिवपदं रामकिशोरेण विरच्यते । सुबोधाऽबुधबोधार्थ शाब्दबोधप्रकाशिका ॥ २ ॥ शाब्दबोधे तु सर्वत्र क्रियामुख्यविशेष्यता । दोषग्रस्ताsप्रमाणा च प्रथमान्तार्थमुख्यता ॥ १ ॥ चैत्रो ग्रामं गच्छतीत्यादौ ग्रामाभिन्नाश्रयनिष्ठसंयोगानुकूलचैत्र कर्तृको. वर्तमानकालवृत्तिर्व्यापार इत्याद्याकारकः कियामुख्यविशेष्यकः सर्वत्र शाब्दबोधः । ननु ग्रामनिष्ठसंयोगानुकूलव्यापारानुकूलवर्तमानकृतिमांचैत्र इत्याद्याकारको नैयायिकाभ्युपगतः प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोधः कुतो नाङ्गीक्रियत, इत्याह- दोषप्रस्तेति । शाब्दबोधस्य प्रथमान्तार्थमुख्यविशेष्यकत्वे पश्य मृगो धावतीत्यत्र धावनस्य दर्शनकर्मत्वं नोपपद्यते । न च तत्र प्रथमान्तार्थस्य मृगस्यैव दृशिक्रियाकर्मत्वं, त्वमित्यध्याहृतप्रथमान्तपदार्थस्य तु मुख्यविशेष्यत्वमिति वाच्यम् । मृगकर्तृकोत्कटधावन क्रियाविशेष्यस्यैव दृशिक्रियाकर्मत्वेन प्रतिपिपादयिषितत्वात् । किंच धावनक्रियाविशिष्टमृगस्य दृशिक्रियाकर्मत्वे विवक्षितलाभेऽपि मृगपदाद्वितीयापत्तिर्दुर्वारा । धावनक्रियायास्तत्कर्मत्वे तु न द्वितीयापतिः । धातुतिङन्तयोः प्रातिपदिकत्वाभावात् । कर्मत्वं तु संसर्गतया भासते । न च शाब्दबोधस्य प्रथमान्तार्थमुख्यविशेष्यकत्वपक्षेऽपि धावनक्रियाविशिष्टस्य मृगस्य दृशिक्रियायां कर्मतासंबन्धेनान्वयान्न मृगपदाद्वितीयापत्तिः प्रातिपदिकार्थविशेष्यत्वेन कर्मत्वादिविवक्षायामेव द्वितीयादिविधानात, अत एवार्थो नम इत्यादावर्घादिपदार्थस्य नमः - पदार्थत्यागे कर्मतासंबन्धेनान्वयादर्घादिपदात्प्रथमैवेति वाच्यम् । निपातातिरिक्तप्रातिपदिकार्थस्य धात्वर्थेऽभेदातिरिक्तसंबन्धेन साक्षादन्वयस्याव्युत्पन्नत्वात् । अन्यथा चैत्रो ग्रामो गच्छति, चैत्रस्तण्डुलः पचतीत्यादिरपि प्रयोग आपद्येत । अत्रापि ग्रामतण्डुलादेर्गमनपचनादौ कर्म

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122