Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 94
________________ वादार्थसंग्रहः [३ भागः पञ्चम्यामेव प्राप्तायां । तदस्मिन्नधिकम् ' इति, 'यस्मादधिकम्' इति च निर्देशात्सप्तमी पञ्चमी चेष्यते । लोके लोकाद्वाऽधिको हरिरित्यादौ प्रतियोगित्वरूपः संबन्धो विभक्त्यर्थः । लोकप्रतियोगिकाधिक्यवदभिनो हरिरिति बोधः। आधिक्यप्रतियोगिनि ऐश्वर्यप्रतियोगिन्यनुयोगिनि च कर्मप्रवचनीययोगे सप्तमीविधायकात् ' यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' इत्यनुशासनादुपपरार्धे हरेर्गुणाः, अधि रामे भूः, अधि भुवि रामः, इत्या. दो सप्तमी । प्रतियोगित्वानुयोगित्वरूपः संबन्धो विभक्त्यर्थः । परार्धप्रतियोगिकाधिक्यवदभिन्ना हरिसंबन्धिगुणाः, रामप्रतियोगिकस्वत्वाश्रया भूः, भूवृत्तिस्वत्वप्रतियोगी राम इति बोधः ॥ इति श्रीमन्मौनिकुलतिलकायमानगोविन्दभट्टात्मजरघुनाथभट्टसुतश्रीकृष्णाविरचितो लघुविभ क्त्यर्थनिर्णयः समाप्तः॥ ॥ शुभं भूयात् ॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122