Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 92
________________ ७८ वादार्थसंग्रहः [३ भागः षष्ठीसप्तम्यौ । निरूपकतारूपः संबन्धो विभक्त्यर्थः । तथा च गोनिष्ठस्वत्वनिरूपितस्वामित्ववानिति बोधः । गवां गोषु वा प्रसूतः गा एवानुभवितुं जात इत्यर्थः । गवां गोषु वा दायाद इत्यत्र गोसंबन्धिदायकर्मकादानकर्तेति बोधः । दायमादत्तेऽसौ दायादः विभक्त्यर्थस्य समुदायसंबन्धेऽप्यवयवेन दायेनापि संबन्धः । तथा च गवाद्यात्मकस्यांशस्यादातेत्यर्थः । गवामश्वेषु च स्वामीति न प्रयोगः । उभयत्र समानविभक्तिकत्वनियमात् कृञ्चेति सूत्रे भाष्ये तथैव स्पष्टत्वात । तदेकव्यापारतया सेवायामायुक्तकुशलपदयोर्योगे षष्ठीसप्तमीविधायकात् 'आयुक्तकुशलाभ्यां चासेवायाम्' इत्यनुशासनादायुक्त: कुशलोवा हरिपूजने हरिपूजनस्य वेत्यादी षष्ठीसप्तम्यौ । हरिपूजनविषयकतात्पर्यवानिति बोधः । कौशलवानिति वा । विषयसप्तम्यां प्राप्रायां वचनम् । पदोपात्तजातिगुणक्रियासंज्ञाभिः पृथक्करणं निर्धारणं, प्रतियोगितावच्छेदकमनुष्यत्वगोत्वादेनिर्धारणविषयीभूते ब्राह्मणादौ सत्त्वे प्रतियोगितावच्छेदकमनुष्यत्वादिविशिष्टवाचकात्पष्ठीसप्तमीविधायकात् ' यतश्च निर्धारणम् । इत्यनुशासनानृणां नृषु वा द्विजः श्रेष्ठः, गवां गोषु वा कृष्णा बहुक्षीरा, गच्छतां गच्छत्सु वा धावन् शीघ्रः , अमीषां छात्राणां देवदत्तः पटुरित्यादौ षष्ठीसप्तम्यौ । अत्र निर्धारणं विभक्त्यर्थः । तथा च श्रेष्ठाभिन्नः नरप्रतियोगिकनिर्धारणविषयो ब्राह्मणः इति बोधः । एवमन्यत्राप्यूह्यम् । नरस्य क्षत्रियः शूर इति स्यादिति चेदत्र केचित्-एकवचनभिन्नयोरेव षष्ठीसप्तम्योरुक्तनिर्धारणबोधकत्वव्युत्पत्तिस्वीकारः। अन्ये तु व्यक्तिपक्षे तादृशव्युत्पत्तिस्वीकारेऽपि जातिपक्षे तादृशप्रयोगे क्षत्यभावात् । अत एव 'द्वन्द्वः सामासिकस्य च' इति गीता संगच्छते । मिदचोऽन्त्यात्परः इति सौत्रप्रयोगश्च संगच्छते । भवदुक्तरीत्या त्वनयोरसाधुता युक्ता । ननु नराणां मध्ये क्षत्रियः शूरतम इत्यत्र मध्यशब्देनैव निर्धारणस्योक्तत्वात् षष्ठी न स्यात् इति चेत् सत्यं, नेयं निर्धारणषष्ठी किं तु मध्यशब्दयोगे संबन्धसामान्ये षष्ठी, सप्तमी त्वत्रासाधुरेवेति केचित् । अन्ये तु निर्धारणवाचिनो मध्ये इत्यव्ययस्य तदर्थकषष्ठया सह संभेदे हे चैत्रेत्यादाविवान्यतरवैयर्थ्यम् । एवं च नरेषु मध्ये इत्यपि साध्वेव । ननु द्रव्येषु घटो गन्धवानित्यपि स्यादिति चेन्न । प्रकृत्युपात्तद्रव्यैकदेशपृथिव्येकदेशत्वान । इह च

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122