Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 91
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । क्षणम् । इत्यनुशासनाद्गोषु दुह्यमानासु गत इत्यादौ कर्मणि ब्राह्मणेष्वधीयानेषु इत्यादौ कर्तरि सप्तमी । वर्तमानदोहनकर्मीभूतगोनिष्ठज्ञापकतानिरूपितज्ञाप्यतावद्गमनाश्रय इति बोधः । वर्तमानाध्ययनकर्तृभूतब्राह्मणनिष्ठज्ञापकतेत्यादिपूर्ववत् । दुग्धास्वित्यत्र वर्तमानध्वंसप्रतियोगिदोहनकर्मीभूतेत्यादि प्राग्वत् । धोक्ष्यमाणास्वित्यत्र विद्यमानप्रागभा. वप्रतियोगिदोहनकर्मीभूतेत्यादिप्राग्वत् । यत्र च लक्ष्यलक्ष्यणभावो न विवक्षितस्तत्र गावो दुह्यन्ते चैत्रो गत इत्येव प्रयोगः । विवाहे नान्दीमुखं कुर्यादित्यत्र विवाहपदेन तत्प्राक्कालो लक्ष्यते इत्यधिकरणे सप्तमी । राहूपरागे नायादित्यादी राहूपरागादिपदेन तदाश्रयः काल उच्यते । गवां दोहे गत इत्यादौ निमित्तसप्तमीति व्यवहारोऽपि अधिकरणसप्तमीमादायैव । ननु निमित्ते सप्तमीविधानं नास्तीति (?) शयानेन चैत्रेण भुक्तमित्यत्र न, एककर्तृकत्वात् । __ यत्तु व्युत्पत्तिवादे शयनभोजनक्रिययोः समानकालीनत्वेऽपि तत्र लद्प्रत्ययेनैव समभिव्याहारादोजनादिसमानकालीनत्वं शयनक्रियाया बोध्यतेऽतो न सप्तमी , अन्यतस्तदनभिधान एव सप्तमीविधानादित्युक्तं तन्न, गोषु दुह्यमानास्वित्यादिमुख्योदाहरणस्य भवद्रीत्या भेदाभावात् । क्रियार्हाणां क्रियाकर्तृत्वे विवक्षिते तथा क्रियानर्हाणां तदभावे विवक्षते तथा क्रियार्हाणां तदभावे क्रियानर्हाणां तस्मिन्विवक्षिते सति सप्तमीविधायकात् ' अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च' इत्यनुशासनेन सत्सु तरत्सु असन्त आसते असत्सु तिष्ठत्सु सन्तस्तरन्ति , इत्यत्र कर्तृसमर्पकात्सप्तमी । इह प्रथमवाक्यद्वये औचित्यं व्यङ्गय, सत्सु तिष्ठत्सु असन्तस्तरन्ति असत्सु तरत्सु सन्तस्तिष्ठन्ति इह तहयेऽनौचित्यं व्यङ्गयम् । औचित्यानाचित्यरूपव्यङ्गथव्यञ्जकभावसंबन्धे सप्तमी । अत एव न यस्य च भावेनेत्यनेन गतार्थता । अन्ये तु व्यर्थमिदमित्याहुः । कैयटादयस्तु लक्ष्यलक्षणभावाविवक्षायामिदमित्याहुः । षष्ठी चानादरे इत्यनेन अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ । रुदति रुदतो वा प्राब्राजीदित्यत्र अनादरविशिष्टं प्रव्रजनं धात्वर्थः । वैशिष्टयं च सामानाधिकरण्य-स्वोत्तरकालिकत्वाभ्याम् । रोदनर्तृपुत्रादिज्ञाप्यमनादरविशिष्टं वजनमिति बोधः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्यनुशासनाद्गवां गोषु वा स्वामीत्यादौ

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122