Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 90
________________ वादार्थसंग्रहः [३ भागः च्छिन्नप्रदेशावच्छिन्ननिराधारगमनानुकूला कृतिः पक्षिनिष्ठेत्याहुः । वैयाकरणनव्या अप्राप्तिपूर्वकप्राप्तिरूपसंयोगसमवायैतद्भिन्नसंबन्धेन यदधिकरणं तद्वैषयिकं तत्रैव सप्तमीत्याहुः । __ वस्तुतस्तु मृगतृष्णाम्भसि स्नात इत्यादाविवारोपितोपश्लेषाधिकरणे सप्तमी। इको यणचीत्यादावौपश्लेषिकाधिकरणे सप्तमीति संहितायामितिसूत्रस्थभाध्यमेवं संगच्छते । अन्यथा द्रव्ययोरेव संयोग इति नियमाद्गुणयोर्मुख्योपश्लेषाभावाद्भाष्यमसंगतं स्यात्। . . इन्प्रकृतिक्तान्तकर्मणि सप्तमीविधायकात् 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' इत्यनुशासनादधीती व्याकरणे इत्यादौ सप्तमी, व्याकरणकर्मकाध्ययनकर्तेति बोधः । अत्र कृतपूर्वीवद्भावे क्तः अधीतमनेनेतीष्टादिभ्यश्वेतीनिः । मासमधीती व्याकरणे इत्यादौ लक्ष्यानुरोधात्कालादिकमणि नेदं प्रवर्तते । क्वचित्त्विष्टापत्तिमाहुः । षष्ठयपवादसप्तमीविधायकेन 'साध्वसाधुप्रयोगे च ' इत्यनुशासनेन साधुः कृष्णो मातरि असाधुर्मातुले इत्यादौ सप्तमी, मातृसंबन्धि... .................................................. ...............भत्याभिन्नः शुभकर्मवानिति बोधे साधुशब्दस्य भृत्येन संबन्धाद्राजपदोत्तरं षष्ठी । भृत्यपदात्तत्तत्संबन्धी नक्रतरङ्गेन प्रथमा या वा (?)। . धातुसमभिव्याहृतपदार्थनिष्ठफलेच्छानुकूलेच्छाविषयरूपनिमित्तस्य कर्मणा संयोगसमवायात्मकसंबन्धे तादृशनिमित्तवाचकात्सप्तमीविधायकात् 'निमित्तात्कर्मयोगे' इत्यनुशासनात् चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ।। इत्यादी सप्तमी । द्वीपिनिष्ठनाणवियोगेच्छानुकूलेच्छाविषयचर्महेतुका तदर्था वा क्रियेति बोधः । हेतुतृतीयायास्तादर्थ्यचतुर्थ्याश्च बाधिकेयम् ' मुक्ताफलायकरिणं रघुवीर हन्ति' इत्यादौ क्रियार्थोपपदेति चतुर्थी । योगाभावेतु वेतनेन धान्यं लुनाति वेतनाय वेति प्रयोगः । वेतनहेतुकं तदर्थ वा धान्यकर्मकं लवनमिति बोधः। कर्तृकर्मणोः स्वनिष्ठक्रियाद्वारकेतरकर्तृकर्मनिष्ठक्रियालक्षकत्वे विवक्षिते लक्षककर्तृकर्मवाचकात्सप्तमीविधायकात् ' यस्य च भावेन भावल

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122