Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 88
________________ ७४ वादार्थसंग्रहः [३ भागः नेन षष्ठीनिषेधात्कुर्वाणः सृष्टिं हरिरित्यादौ द्वितीया, सृष्टिकर्मकक्रियाश्रयाभिन्नो हरिरिति बोधः । हरि दिदृक्षुरलंकरिष्णुरित्यादौ हरिकर्मकदर्शनेच्छावान् तत्कर्मकालंकरणकर्ता वेति बोधः । दैत्यान्धातुको हरिरित्यादौ दैत्यकर्मकहननकभिन्नो हरिरिति बोधः । कमेरनिषेधः इत्यनेन निषेधाभावबोधनालक्ष्म्याः कामुक इत्यत्र षष्ठी । लक्ष्मीविषयकेच्छावानिति बोधः। जगत्सष्टा सुखं कतमित्यत्र जगत्सर्जनोत्तरकालिका सुख क्रियेति बोधः । दैत्यान्हतवानित्यत्र दैत्यकर्मकभूतहननाश्रय इति बोधः । विष्णुना हता दैत्या इत्यत्र विष्णुकर्तृकहननकर्माभिन्नाः दैत्या इति बोधः । ईषत्करः प्रपञ्चो हरिणेत्यत्र हरिकर्तृकं प्रपञ्चकर्मकमीषत्करणमिति बोधः । सोमं पवमानः आत्मानं मण्डयमानः कर्ता लोकान्वेदमधीयन् इत्यादौ तृन्नितिप्रत्याहारग्रहणान्निषेधः, बोधः प्राग्वत् । शतृप्रत्ययान्तद्विषधातुयोगे विकल्पेन षष्ठीविधायकात् ' द्विषः शतुर्वा' इत्यनुशासनान्मुगस्य मुरं वा द्विषन्नित्यादौ षष्ठी । मुरकर्मकद्वेषकर्तेति बोधः । भविष्यत्यकस्य भविष्यदाधमार्थकेनश्च योगे षष्ठीनिषेधविधायकादकेनोर्भविष्यदाधमयॆयोरित्यनुशासनात्सतः पालकोऽवतरति व्रजं गामी शतं दायीत्यादौ न षष्ठी, सत्कर्मकभविष्यत्पालनकर्तेति बोधः । निषेधस्तु कर्तृत्वकर्मत्वप्रकारकबोधे पष्टया असाधुत्वबोधकः, संबन्धत्वेन बोधे तुसाधुत्वमेव । कृत्यानां योगे कर्तरि षष्ठीविकल्पविधायकात् 'कृत्यानां कर्तरि वा' त्यनुशासनान्मया मम वा सेव्यो हरिरित्यादौ षष्ठीविकल्पः । मत्कर्तृकसेवनकर्माभिन्नो हरिरिति बोधः । तुलोपमाशब्दभिन्नैः पदान्तरनिरपेक्षैः तुल्यार्थकोंगे संबन्धसामान्ये षष्ठयां प्राप्तायां पाक्षिकतृतीयाविधायकात् 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ' इत्यनुशासनात्तुल्यः सदृशः समो वा कृष्णस्य कृष्णेनेत्यत्र पाक्षिकी तृतीया । कृष्णप्रतियोगिकसादृश्यवानिति बोधः । गौरिव गवय इत्यत्र पदान्तरसापेक्षत्वेनेवादीनां तुल्यार्थत्वात्षष्ठी न । आयुष्यमद्रभद्रकुशलसुखार्थहितैः तदर्थकोंगे आशिषि शेषे पाक्षिकचतुर्थीविधायकात् 'चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122