Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
.
वादार्थसंग्रहः
[३ भागः दूरान्तिकार्योगे पष्ठीपञ्चमीविधायकाइरान्तिकार्थैः षष्ठयन्यतरस्यामित्यनुशासनाद्वामस्य ग्रामाद्वा दूरमन्तिकं वेत्यत्र षष्ठीपञ्चम्यौ । प्रतियोगित्वसंबन्धो विभक्त्यर्थः । __ व्यवहृपणोरितिसूत्रपरामर्शितच्छब्दबलेन दूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि कर्मत्वेन विवक्षिते षष्ठीविधायकात् 'दिव. स्तदर्थस्य' इत्यनुशासनाच्छतस्य दीव्यतीत्यादौ षष्ठी । शतकर्मिका क्रीडा व्यहारो वा देवदत्तकर्तक इति बोधः । सोपसर्गे तु विभाषोपसर्गे इत्यनेन विकल्पाच्छतस्य शतं वा प्रतिदीव्यतीत्यादौ षष्ठी । बोधः पूर्ववत् ।
देवतासंप्रदानकेऽर्थ वर्तमानयोः प्रेष्यध्रुवोः कर्मणो हविर्विशेषस्य वाचकात् षष्ठीविधायकात् 'प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ' इत्यनुशासनादग्नये छागस्य हविषोऽनुब्रूहि प्रेष्य वेत्यत्र कर्मत्वे पष्ठी । छागावयवीभूतवपासंबन्धिहविर्भूतमेदःकर्मकः प्रैष इति बोधः । प्रस्थितत्वेन विशेषणत्वे तु प्रस्थिते प्रतिषेध इति वार्तिकेन षष्ठीप्रतिषेधे द्वितीयैव इहाग्निभ्यां छागस्य हविषो मेदः प्रस्थितं प्रेष्येति प्रयोगः ।
कृद्योगे कर्तृकर्मणोः षष्ठीविधायकात् ' कर्तृकर्मणोः कृति ' इत्यनुशासनात्कृष्णस्य कृतिः, जगतः कर्ता कृष्णः, इत्यत्र षष्ठी । कृष्णकर्तृका कृतिः। जगत्कर्मककृत्याश्रयाभिन्नः कृष्ण इति बोधः । स्तोकं पाक इत्यत्र तु न, कर्तृसाहचर्येण धात्वर्थकर्मण्येव तत्प्रवृत्तेः । सूत्रे कृदहणादाभ्रिको भूमिं देवदत्तः, देवदत्तेन शत्योऽश्व इत्यादौ तद्धितस्य ये कर्तृकर्मणी तत्र न । कृतपूर्वी कटमित्यत्रापि भावे क्तान्तेन पूर्वशब्दस्य समासे, इनौ, पश्चात्कटेन संबन्धे कृन्मात्रयोगाभावान्नलोकेति निषेधाद्वा षष्ठयभाते द्वितीया । एवमोदनं पाचकतम इत्यत्रापि । अन्ये तु ओदनस्य पाचकतम इति षष्ठी भवत्येव । कृदहणेन तद्धितार्थ प्रति गुणीभूतक्रियायाः ये कर्तृकर्मणी तत्रैव व्यावर्तनादित्याहुः । नच धायैरामोदमिति भट्टिप्रयोगोऽनुपपन्नः । अनित्यमिदं तदर्ह मिति द्वितीयान्ततच्छब्दप्रयोगात् । ननु समस्तमेवास्तु इति चेन्न ।' तत्र तस्येव' इत्यत्र योगविभागेन तत्रेव तस्य अर्हमित्येवंरूपेणैव सिद्धे तच्छब्दोपादानेन समासाभावबोधनात् । ननु भिदेय॑न्ताण्ण्वुलि भेदिका देवदत्तस्य काष्ठानामित्यादौ पाचयत्योदनं देवदत्तेन यज्ञदत्त इत्यादाविव मुख्यत्वात्प्रयोजककर्तृवाचकादेव षष्ठी स्यादिति चेन्न । वैषम्यात् । तथाहि तत्रैकेन
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122