Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
७०
वादार्थसंग्रहः
[ ३ भागः षष्ठयादिभिस्तथाविषयतयोच्यते, इमौ संयुक्तावित्येव तत्र व्यवहारात्'-इत्यादिनोक्तमेव भेदकमिति वाच्यम् । गङ्गायास्तीरे इत्यादौ संयुक्तपदाभावेऽपि षष्ठया गङ्गातीरयोः संयोगसंबन्धस्य प्रतीयमानत्वेन भवदुक्तभेदकाभावात् । रथस्याश्वाः अन्यस्वामिकपीताम्बरदण्डादिसंयुक्तेऽपि पुरुषे पीताम्बरोऽयं दण्डीत्यादिव्यवहाराच । संयोगाभावे तु स्वस्वामिभावे सत्यपि न तादृशप्रयोगः । भवद्भिरपि, तत्र संबन्धव्यवहारस्तु उभयाश्रितत्वरूपसंबन्धधर्मवत्त्वाद्गौण इत्यादिना संयोगस्य संबन्धत्वाङ्गीकारात् । तस्य गौणत्वे प्रमाणाभावात् । न च मतुप्सूत्रे वृक्षवान्पर्वत इत्याद्यथै सप्तम्युपादानमिति भाष्यं मानम् । पर्वताधिकरणको वृक्ष इति विवक्षायां तस्य सार्थक्यात् । गोमान् देवदत्त इत्याद्यर्थ षष्ठथुपादानमित्यत्र तु आदिपदात्षष्ठयन्तग्रहणम् । न चात्र संयोगस्य संबन्धत्वे पर्वतस्य वृक्षा इति प्रयोगस्येष्टत्वेऽत्रैव पष्ठयन्तपदसार्थक्ये गोमान् देवदत्त इति दूरमनुधावनं व्यर्थमिति वाच्यम् । अत्रान्यतरोपादानेनापि प्रयोगसिद्धिः, गोमान् देवदत्त इत्यत्रं त्वधिकरणत्वविवक्षायाः असंभवान्मुख्यषष्ठयन्तस्यैवोदाहरणमित्यभिप्रायेण तस्य सार्थक्यात् । न च भवन्ति पर्वते वृक्षा न च ते तस्य भवन्तीति स्पष्टमेव भाष्ये पर्वतस्य वृक्षा इति प्रयोगाभावः प्रतिपादित इति वाच्यम् । यदाधिकरणत्वेन विवक्षा तदा षष्ठीप्रतिपाद्या न भवन्तीत्येवमभिप्रायकत्वात् । एवं च संयोगस्य संबन्धत्वे षष्ठ्यर्थत्वे वा संबन्धपदाभिधेयत्वे वा भाष्यविरोधरूपदोषाभावात्तदभावे वा फलाभावाच्च दुराग्रहेण संबन्धत्वाभावप्रतिपादनमयुक्तमिति दिक् ।
यदपि संबन्धश्च षष्ठयादिभिरेवोच्यते संबन्धपदेनापि सांसर्गिक-- विषयतावत्त्वेन नोच्यत इति सर्वथा पदागम्य इति संयोगभेदकफविकायामुक्तं तदपि न, तत्रैवकारव्यावाभावात् । संबन्धस्य सांस- . र्गिकविषयतया भानाभावाभ्युपगमे तस्य षष्ठ्यर्थत्वमेव न स्यात् । षष्ठयर्थश्च सांसर्गिकविषयतयैव भासत इति भवदभ्युपगमविरुद्धत्वात् । यदपि षष्ठ्यर्थः स्वत्वस्वामित्वादिसमूहरूप इत्युक्तं तदपि न गौरवात् । स्वत्वादेः पुरुषादावन्वयेन प्रत्ययानां प्रकृत्यान्वितेत्यादिनियमभङ्गापत्तेश्चेति दिक् ।
तस्मात्संबन्धत्वेन संबन्धबोधे पर्वतस्य वृक्षा इति प्रयोगः साधुरेव ।
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122