Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 83
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । ६९. ऽपि वक्तुं शक्यः । वृक्षपर्वतयोरित्यादिकं च यत् पर्वतस्य वृक्षा इत्यादिप्रयोगाभावसाधकोपन्यसनं तन्मुधैव आधाराधेयभावस्य संयोगमूलत्वे.. ऽपि तदविवक्षायां षष्ठया दुर्वारत्वात् । अन्यथा व्रजमवरुणद्धि गामित्यादौ षष्ठयप्राप्तौ तदपवादकाऽकथितं चेति द्वितीया न स्यादिति सर्वो- . पप्लव एव स्यात् । अस्तु वा भवदुक्त एव हरिकारिकार्थः, तथापि सामीप्यादौ तु बुद्धिपरिकल्पितक्रियाकारकसंबन्धस्य स्वीकारात् तद्रीत्यात्रापि सामीप्यसंबन्धे पर्वतस्य वृक्षा इति वक्तुं शक्यत्वात् । यदपि किंच संयोगो न संबन्धः संबन्धस्य पदार्थयोजनामात्रहेतुत्वात् । संयोगस्य स्वतः पदार्थत्वात् । सांसर्गिकविषयतया तस्याभानाच । संबन्धश्च षष्ठयादिभिरेवोच्यन्ते । संबन्धपदेनापिसांसर्गिकविषयतावत्त्वेन नोच्यत इति संबन्धः सर्वदा पदागम्यः, संयोगस्तु न कदापि षष्ठयादिभिः तथाविषयतयोच्यते । इमौ संयुक्तावित्येव तत्र व्यवहारात् । तत्र संबन्धव्यवहारस्तूभयाश्रितत्वरूपसंबन्धधर्मवत्त्वागौणः, अत एव मतुप्सूत्रे वृक्षवान्पर्वत इत्याद्यर्थ सप्तम्युपादानं, गोमान् देवदत्त इ.. त्याद्यर्थं च षष्ठथुपादानमिति भाष्ये उक्तम् । षष्ठयर्थश्व सांसर्गिकविषयतयैव भासते । अत एव 'षष्ठी शेषे ' इति सूत्रे भाष्ये राज्ञः पुरुष इत्यत्र राजा विशेषणं पुरुषो विशेष्य इत्युक्तम् । अन्यथा संबन्धे विशेष्यतया विशेषणतया वा ब्रूयात् । राज्ञः पुरुष इत्यत्र स्वस्वामिभावः षष्ठयर्थः । स च स्वत्वस्वामित्वसमूहरूपः। अत एव स्वस्वामिभावोऽवयवावयव विभाव आधाराधेयभावः प्रतियोग्यनुयोगिभावो विशेषणविशेष्यभावः संबन्ध इत्यादि व्यवहार इत्युक्तं तदपि न । संयोगस्य संबन्धत्वे षष्ठयर्थत्वे च बाधकाभावात् । न चोक्तहेतुद्वयेनोक्तं बाधकमिति वाच्यम्। तस्यासंवर्धतत्वात(?)। तथाहि किं संयोगस्य संबन्धत्वं नास्तीति ब्रूषे उत षष्ठयर्थत्वं नास्तीति, यद्वा संबन्धपदाभिधेयत्वं नास्ति । नाद्यः संयोगस्य स्वत:पदार्थत्वेऽपि सांसर्गिकविषयतयाऽभानेऽपि संबन्धत्वे बाधकाभावात् । नहि संबन्धस्यापदार्थत्वं सांसर्गिकविषयतयैव वा भानं नियतं येन भवदुक्तं संगच्छेत । अन्यथा राजा स्वामी देवदत्तः स्वमित्यादावपि स्वस्वामिभावस्य पदार्थतया सांसर्गिकविषयतयाऽभानेन च स्व. स्वामिभावादीनामपि उक्तरीत्या संबन्धत्वं न स्यात् । उभयोस्तुल्यत्वात् । नच-'संबन्धः षष्ठयादिभिरेवोच्यते संबन्धपदेनापि सांसर्गिकविषयतावत्त्वेन नोच्यते इति संबन्धः सर्वथा पदागम्यः, संयोगस्तु न कदापि

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122