Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः। र्थकशब्देभ्यो तृतीयापञ्चमी विधायकात् 'दूरान्तिकार्थेभ्यो द्वितीया च' इत्यनुशासनाद्दूराडूरं दूरेण वेत्यादौ द्वितीयादयः । आये संबन्धः पञ्चम्यर्थः । द्वितीये तु प्रातिपदिकार्थमात्रमिति विवेकः । ग्रामसंबन्धिदूरदेशवृत्ति गमनमिति बोधः । एवं ग्रामाद्रामस्य वाऽन्तिकादन्तिकमन्तिकेन वेत्यादावपि बोधः ।
। इति पञ्चमी।
षष्ठयर्थनिर्णयः। कारकप्रातिपदिकार्थव्यतिरिक्तस्वस्वामिभावादिरूपसंबन्धविवक्षायां 'षष्ठी शेषे' इत्यनेन संबन्धरूपे षष्ठीविधानाद्राज्ञः पुरुष इत्यादौ राजपदोत्तरं षष्ठी । राजनिरूपितसेवकत्वरूपसंबन्धवान्पुरुष इति बोधः । संबन्धत्वेन सबन्धः षष्ठयर्थः । विशेषरूपेण वाच्यत्वे तु नानार्थतापत्तेः । तात्पर्यवशात्तु विशेषबोधः । अत एव संयोगादिसत्त्वे स्वत्वरूपसंबन्धाभावे चैत्रस्य नेदं वास इत्युपपद्यते । एवं दण्डिनमानयेत्युक्ते दण्डस्वामी नानीयते अपि तु दण्डसंयोगवानेव । न च चित्रगुः पुरुष इत्यत्र संबन्धस्य षष्ठपर्थत्वे सामानाधिकरण्यं न स्यादिति वाच्यम् । संबन्धेनाक्षिप्तसंबन्धिना सामानाधिकरण्यसंभवात् । उक्तं च
संबन्धेनैव संबन्धी प्रत्ययेनोपदिश्यते ।
पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेत्' इति । संबन्धिवादिनस्तु संबन्धस्य षष्ठ्यर्थत्वे आरुण्यादीनां स्ववाक्योपात्तव्याभिनिवेश इत्येतत्प्रतिपादकारुण्याधिकरणाधुच्छेदापत्तिः तस्मात्संबन्धी अर्थः । तथा च विभक्त्यर्थसंख्याप्रकारकबोधे विभक्तिजन्योपस्थितिहेतुः इति लघुभूतः कार्यकारणभावः । संबन्धस्य वाच्यत्वे तु प्रकृतिजन्योपस्थितिहेतुरिति कल्प्यमिति गौरवम् । एकराजकीयसंबन्धद्वयाभिधाने राज्ञोरित्यापत्तेः । एवं च शेषषष्ठयाः संबन्धी एवार्थः । भूषणादौ ‘संबन्धः शक्तिरेव वा' इत्यत्र संबन्धपदं अर्शआद्यजन्तं बोध्यम् । एवं च विशेषरूपेण षष्ठयर्थत्वाभावे स्वत्वं स्वामित्वं वा ...
......।
___ वैयाकरणनव्यैः-षष्टयर्थसंबन्धस्य सर्वत्र क्रियाकारकपूर्वकत्वमेव, सा च कचिच्छ्रता कचिदध्याहृता । अत एव हरिणा
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122