Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 80
________________ ६६ . वादार्थसंग्रहः [३ भागः 'प्रतिः प्रतिनिधिप्रतिदानयोः' इत्यनुशासनविहितकर्मप्रवचनीयसंज्ञकप्रतियोगे 'प्रतिनिधिप्रतिदाने च यस्मात् ' इत्यनेन प्रद्युम्नः कृष्णाप्रति, तिलेभ्यः प्रतियच्छति माषानित्यादौ पञ्चमी । प्रतियोगित्वरूपः संबन्धः पञ्चम्यर्थः । कृष्णप्रतियोगिकसादृश्यवानिति बोधः । तिलग्रहणपूर्वकं माषप्रतिदानमिति बोधः । केचित्तु कर्मत्वं पञ्चम्यर्थः । तथा च तिलकर्मकभावनाजन्योपकारीभूता माषकर्मिका दानभावना चैत्रवृत्तिरिति बोधं वदन्ति । कर्तृवर्जितं यहणं हेतुभूतं ततः पञ्चमीत्यर्थकाद् 'अकर्तणे पञ्चमी' इत्यनुशासनाच्छताद्वद्ध इत्यादौ पञ्चमी । शतहेतुकबन्धनकर्मेति बोधः । गुणे हेतावस्त्रीलिङ्गे पञ्चमीविधायकात् ‘विभाषा गुणेऽस्त्रियाम् ' इत्यनुशासनाजाड्यात् जाड्येन वा बद्ध इत्यादौ पञ्चमी, जाड्यहेतुकबन्धनकर्मेति बोधः । धूमादग्निमान्, नास्ति घटोऽनुपलब्धेरित्यादौ तु विभाषेतियोगविभागात्पञ्चमी । ‘बाहुलकं प्रकृतेस्तनुदृष्टेः' इति वार्तिकप्रयोगोऽप्यत्र मानम् । धूमहेतुकमग्निमत्त्वज्ञानम् , अनुपलब्धिहेतुकं घटास्तित्वाभावज्ञानमिति बोधः। 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इत्यनुशासनात्पृथग्रामेण रामाद्रामं वेत्यादौ पश्चमी । पञ्चम्यादीनां प्रतियोगित्वरूपः संबन्धोऽर्थः । पृथक्त्वं च गुण इति तार्किकाः । तत्र चेदमेव ज्ञापकमिति वदन्ति । तत्तु प्रागेव दूषितम् । तथाच रामप्रतियोगिकभेदवान् कृष्ण इति बोधः । तत्प्रतियोगिकपृथक्त्वमिति वा । विनानानाशब्दयोरत्यन्ताभावोऽर्थः । रामप्रतियोगिकात्यन्ताभाव इति बोधः । _ 'स्तोकाल्पकृच्छकतिपयानामसत्त्ववाचकानां करणे षष्ठीतृतीयाविविधायकात् 'करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य' इत्यनुशासनेन स्तोकेन स्तोकाद्वा मुक्त इत्यादौ तृतीयापञ्चम्यौ । स्तोकादिशब्दाः शुक्लादिशब्दवद्धर्मे धर्मिणि च वर्तन्ते । एवं चाद्ये गुणक्रियाव्यतिरिक्तजात्याश्रय(?)रूपसत्त्वभिन्नत्वात्पञ्चमीततीये स्तोककरणकमोचनकर्मीभूत इति बोधः । एवं कृच्छ्रादियोगेऽपि । धर्मस्य करणत्वं तु स्वाश्रयद्वारा। दूरान्तिकार्योगे पदान्तराद्विभाषा षष्टीविधायकात् 'दूरान्तिकाथैः षष्ठयन्यतरस्याम्' इत्यनुशासनादामोत्तरषष्ठीपञ्चम्यौ । तथा दूरान्तिका

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122