Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
६४
वादार्थसंग्रहः
[३ भागः
मिति वदतोऽप्ययमेवाशयः । नन्वेवं घटान्न घटादेक इति च स्यादिति चेन्न । नत्रो द्योतकत्वेन भेदार्थकत्वाभावात् । घटादेक इत्यादौ त्वेकशब्दस्यान्यार्थकत्वेनेष्टापत्तेः __ यत्तु व्युत्पत्तिवादे अन्येतरयोः स्वरूपपरत्वमेव, अर्थपरत्वे घटादेकः घटात्स इति च स्यादिति । घटादिनः घटाद्भिद्यते इत्यादावपादाने प. ञ्चमी । भिद्धातो न्योन्याभावोऽर्थः । घटाद्भिनत्ति पट इति प्रयोगापत्तेः भिद्यते इति प्रयोगानापत्तेश्च कर्तरि यगात्मनेपदासंभवात् , अदैवादिकत्वाच न श्यन्संभवः परस्मैपदित्वाच्च अकर्मकधातुयोगे कर्मकर्तृविवक्षाया अप्यसंभवात् इत्युक्तम् । तदेवानुसृत्य वैयाकरणनव्यैरप्यन्य इत्यर्थग्रहणमिति भाष्यानुक्तत्वादितरग्रहणाच्चायुक्तमित्युक्तम् । तदसमअसं भाष्यानुक्तत्वेन सकलव्याख्यातृग्रन्थविरोधेनान्यथाप्रयोगसाधनस्यानुचितत्वात् । नहि सर्व भाष्येण कण्ठरवेणैवोच्यते किंतु तदविरोधेन सकलग्रन्थसंमतस्य भाष्याभिप्रेतत्वाभिमानात् । नचार्थपरत्वे पूर्वोक्तदोषः । घटादेक इत्यादौ त्विष्टापत्तिः । घटात्स इत्यत्र तु तच्छब्दस्यान्यार्थत्वाभावात् । घटाद्भिन्न इत्यादावपादानपञ्चमी चेत्सर्वत्र बुद्धिपरिकल्पितापादानसत्त्वात्सूत्रं च व्यर्थम् । संबन्धत्वेन विवक्षायां घटस्य भिन्न इति प्रयोगापत्तिश्च । भिदधातोः सकर्मकत्वेन भिद्यते इति प्रयोगोपपत्तिश्चेति दिक् । __ यत्तु पृथक्त्वं गुणः नान्योऽन्याभावः । अन्यथा अन्यारादित्येव सिद्धेः पृथग्विनेति पञ्चमीविधानं व्यर्थ स्यादित्युक्तं तार्किकैः । तन्न, पृथक्शब्दस्यान्योन्याभावार्थकत्वेऽपि पञ्चमी-द्वितीया-तृतीयाविधा. नार्थ सूत्रपाठस्य सार्थक्यात् । तस्मात्पृथक्त्वं न गुणः किंतु अन्योन्याभावः । अतः रूपं रसात्पृथगित्यादि संगच्छते । अन्यथा गुणे गुणानङ्गीकारात्तदसंगतं स्यात् ।
ऋते कृष्णानोत्पद्यते सुखमित्यात्रात्यन्ताभाव ऋतेशब्दार्थः । कृष्णप्रतियोगिकात्यन्ताभावप्रयोज्यः सुखकर्तृकोत्पत्त्यभाव इति बोधः । अथवा कृष्णशब्दस्तद्भक्तिपरस्तत्प्रतियोगिकेत्याद्यर्थः । एतद्योगे ततोऽन्यत्रापि दश्यत इति द्वितीयापि । ऋते वातं वृक्षः पतितः वाताभाववान्वृक्षः पतनाश्रयः इति बोधः । एवं पुरुषाराधनमृते इत्यपि । आरादनादित्यत्र वनप्रतियोगिकसमीपत्वदृरत्ववान्वा ग्राम इति बोधः । दूरान्तिकार्थेति षष्ठया अनेन बाधः ।
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122