Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः न्धित्वेन प्रसक्तस्य यवादेस्तद्विपरीतत्वेन निवारकेच्छाविषयत्वात् न कश्चिद्दोषः । __ व्यवधाने सति यत्कर्तृकात्मकर्मकदर्शनाभावमिच्छति तत्कारकमपादानमित्यर्थकेन ' अन्तधौं येनादर्शनमिच्छति' इत्यनुशासनेनापादानसंज्ञाविधानान्मातुर्निलीयते कृष्ण इत्यादावपादानत्वात्पञ्चमी । मात्रपादानककृष्णकर्तृकदर्शनाभावानुकूलो व्यापार इति बोधः । अन्ये तु अत्र प्रत्यक्षाभावेच्छापूर्वकप्रत्यक्षविरोधिव्यापारो धात्वर्थः। वृत्तित्वं पञ्चम्यर्थः धात्वर्थतावच्छेदकप्रत्यक्षेऽन्वेति । विरोधित्वं तज्जनकलौकिकसन्निकर्षाभावानुकूलत्वम् । कृतिराख्यातार्थः । तथा च मातृवृत्तिस्वविषयकप्रत्यक्षाभावेच्छापूर्वकः प्रत्यक्षजनकलौकिकसन्निकर्षाभावानुकूलव्यापारस्तदनुकूला कृतिः कृष्णनिष्ठेति बोधमाहुः ।।
नियमपूर्वकविद्यास्वीकारे वक्ताऽपादानसंज्ञ इत्यर्थकेन ' आख्यातोपयोगे' इत्यनुशासनेन पण्डितात्पुराणं शृणोति उपाध्यायादधीत इत्यादादावपादानत्वात्पञ्चमी । पण्डितापादानकं पुराणकर्मकं श्रवणं चैत्रवृत्तीत्यायूह्यम्।
जायमानस्य हेतुर्निमित्तोपादानसाधारणोऽपादानमित्यर्थकेन 'जनिकर्तुः प्रकृतिः ' इत्यनुशासनेन ब्रह्मणः प्रजाः प्रजायन्ते इत्यत्रापादानसंज्ञा विधानात्पञ्चमी । भाष्यमते तु हेतुशब्देनोपादानमेव गृह्यते । उभयथाऽपि ब्रह्मापादानिका प्रजाकर्तृकोत्पत्तिरिति बोधः। आये ‘यतो वा इमानि भूतानि जायन्ते' इत्यादौ सामान्यशब्देऽपि अहमेव बहु स्यामिति सामानाधिकरण्येन, 'छागो वा मन्त्रवर्णात्' इतिवत् उपादानरूपो विशेषो बोध्यः । अर्थग्रहणाद्धात्वन्तरयोगेऽपि “अङ्गादनात्संभवसि' इति यथा। __ भूकर्तुः प्रभवः आद्यबहिःसंयोगः (यत्र ?)सोऽपादानमित्यर्थकेन 'भुवः प्रभवः' इत्यनेन हिमवतो गङ्गा प्रभवतीत्यादावपादानत्वात्पञ्चमी । हिमालयसंयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्यपृथिवीसंयोगाश्रयतावती गङ्गेति बोधः । वैकुण्ठात्काशीतो वा गङ्गा प्रभवतीति प्रयोगवारणायाव्यवहितेति आद्येति च । वैकुण्ठसंयोगध्वंसाव्यवहितोत्तरक्षणे भूसंबन्धस्य काशीसंयोगध्वंसाव्यवहितक्षणे चाद्यस्य तस्याभावात् । 'वल्मीकापात्प्रभवति धनुःखण्डमाखण्डलस्य' इत्यादौ वल्मीकाग्रोर्ध्वदेशो बहिःपदार्थः । वल्मीकः सात(यो भेदः ?पो मेघः)।
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122