Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
लघुविभक्त्यर्थनिर्णयः ।
प्रवृत्तिक्रियाप्रतिषेधानुकूलव्यापाररूपवारणार्थकधातुयोगे तत्तत्क्रिया
११ ग्रन्थः ]
तत्तत्क्रियाकर्तुरीप्सितोऽभिप्रेतोऽपादानमित्यर्थकात्
I
जन्यफलभागितया ' वारणार्थानामीप्सितः ' इत्यनुशासनाद्यवेभ्यो गां वारयतीत्यत्र यवानामपादानत्वात्पञ्चमी । तथा च यवप्रतियोगिकविनाशानुकूलो भक्षनादिरूपो व्यापारस्तस्य गोवृत्तियोंऽभावस्तदनुकूलो व्यापारो देवदत्तवृत्तिरिति बोधः । एवं पुष्पेभ्यः आतपं वारयति, परस्वेभ्यः पाणि वारयति इत्यादौ पुष्पवृत्तिशुष्कीभावानुकूलव्याराभावो यः आतपनिष्ठस्तदनुकूलेत्यादि बोधः । परस्ववृत्तिसंयोगानुकूलव्यापाराभावो यः पाणिनिष्ठस्तदनुकूलेत्यादि प्राग्वत् । कूपादन्धं वारयतीत्यत्र कूपवृत्ति यदवः प्रदेशावछिन्नसंयोगानुकूलक्रियारूपं पतनं तदनुकूलो योऽन्धवृत्तिव्यापारस्तस्य योऽभावस्तदनुकूलो व्यापार चैत्रवृत्तिरिति बोधः । एवमनेर्माणवकं वारयतीत्यत्राग्निजन्यदाहानुकूलव्यापाराभावानुकूलेत्यादि प्राग्वत् । इत्यननुगत एव पञ्चम्यर्थो वारयत्यर्थश्च अनुभवानुरोधेनाननुगतस्यादोपवात् । इति वदन्ति । अन्ये तु सर्वत्र संयोगजनकव्यापाराभावस्य कर्मकारक वृत्तेरनुकूलो व्यापारः स एव धात्वर्थः । वृत्तित्वं पञ्चम्यर्थः इत्यादि यद्वस्तन्न-यवेभ्यो गोसंयोगं वारयतीत्यनुपपत्तेः ।
६१
यत्तु व्युत्पत्तिवादे यत्र चैत्रादेर्नान्तरीयकतया विषभोजनं प्रसक्तं न तु स्वेच्छातस्तत्र तद्भोजनविरोधिव्यापारकर्तरि चैत्रं विषाद्वारयतीत्यादिर्न प्रयोग:, अपि तु सविषाद्वारयतीत्यादिरेव । तत्र पूर्वप्रयोगवारणाय सूत्रकृतेप्सित इत्यत्र सन्प्रत्ययेनेच्छोपादानादित्याद्युक्तं तत्तु कूपादन्धं वारयति इत्यत्रापि तुल्यम् । तथाहि यथात्र नान्तरीयकं विषभक्षणं तथा तत्र कूपपतनमपि नान्तरीयकमेव । एवं च तत्रापि सकूपाद्देशाद्वारयतीत्येव प्रयोगः स्यात् । नतु कूपादन्धं वारयतीति । यदि स प्रयोगः प्रामाणिकस्तर्ह्यत्रापि चैत्रं विषाद्वारयतीत्येव प्रयोगः । विषस्य विषत्वेनेच्छाविषयात्वाभावेऽपि भक्ष्यत्वेनेच्छाविषयत्ववत्कूपस्य कूपत्वेनेच्छाविषयत्वाभावेऽपि देशत्वेनेच्छाविषयत्वस्य तुल्यत्वात् । सूत्रवार्तिकभाष्यानुक्ततर्कस्यानुचितत्वात् । ननु पुष्पेभ्य आतपं वारयतीत्यादावा तपस्याचेतनत्वात्कथं पुष्पमीप्सितमिति चेत् । निवार्य - निवारकान्यतरस्येप्सितमित्यर्थात् । तथा च धात्वर्थतावच्छेदकीभूतस्य विनाशाद्यनुकूलव्यापाराभावरूपस्य यत्फलं विनाशादि तत्संब
६
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122