Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः ।
तच त्रिविधं-निर्दिष्टविषयमुपात्तवि
षयमपेक्षितक्रियं चेति । साक्षाद्धातुना गतिनिर्देशे आद्यम् । यथाऽश्वात्पततीति। यत्र धात्वन्त. रा (र्थाङ्गं? र्थगतिविशिष्टं) स्वार्थ धातुराह तदुपात्तविषयम् । यथा-बलाहकाद्विद्योतते विद्युत् (विस्फूरसङ्गगे ? निःसरणपूर्वके) विद्योतने युतिवर्तते । अपेक्षितक्रियं तु तत् यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पच्छति कुतो भवानिति पाटलिपुत्रादिति चोत्तरयति। - जुगुप्साविरामप्रमादार्थानामुपसंख्यानमित्यनुशासनेनैतदर्थकानां धातूनां कारकस्य जुगुप्स्यमानार्थकस्यापादानसंज्ञाविधानादधर्माज्जुगुप्सते विरमति प्रमाधति चेत्यत्र पञ्चमी । अत्र पञ्चम्या द्वेषोऽर्थः । तत्र प्रकृत्यर्थस्य विषयत्वेन तस्य निवृत्तिरूपधात्वर्थे जन्यत्वेनान्वयः । तथा च पापगोचरद्वेषजन्यनिवृत्तिमानिति बोधः। विषयत्वं पञ्चम्यर्थः । अध. मविषयक निवृत्तिमानिति च । गर्हापूर्वकनिवृत्ति पधातोरर्थः । विषयत्वं सुपोऽर्थः । तच्च गर्दानिवृत्त्योः क्रमेणान्वितम् । तथा च पापविषय. कगर्हाप्रयुक्तपापगोचरनिवृत्तिमानिति बोधः । अनिष्टसाधनतारूपनिन्दा वा जुगुप्सतेरर्थः । विषयत्वं सुपोऽर्थः । तथा च पापविषयकानिष्टसाधनतारूपा निन्देत्यर्थः । विषयता पञ्चम्यर्थः । करणानन्तरमकरणं विरामार्थः । आख्यातार्थ आश्रयत्वं, पञ्चम्यर्थस्य कृतिद्वारकोऽन्वयः । तथा चाधर्मविषयककृत्यनन्तरकालीनाधर्मविषयककृत्यभावाश्रयः । अनवधानं प्रमादार्थः अधर्मविषयकानवधानाश्रयः । एवं यथासंभवं बोधं वदन्ति । भाष्यरीत्या तु अधर्मापादानिका निन्दापूर्विका निवृत्तिः। एवं सर्वत्र । भाष्यमते अपादानस्य संबन्धत्वेन विवक्षायां नात्र षष्ठी अनभिधानात्। ____ अनिष्टचिन्तनानिष्टपरिहाररूपभीत्रार्थकधातुयोगेऽनिष्टहेतोरपादानसंज्ञाविधायकानुशासनेन भीत्रार्थानां भयहेतुः' इत्यनेन चोरादीनामपादानत्वाचोराद्विभेति त्रायते वेत्यत्र पञ्चमी । चोरापादानकमनिष्टचिन्तनं तत्परिहारो वेति बोधः । अन्ये तु हेतुत्वं जन्यत्वं वा पञ्चम्यर्थः । तच्च भावित्वेन स्वानिष्टचिन्तनपर्यवसितस्य भयस्यैकदेशेऽनिष्टे चिन्तने वान्वितं, तथा च व्यावहेतुकस्वानिष्टस्य भावित्वेन चिन्तनवान् , व्याघ्रहेतुकत्वेन भाव्यनिष्ट धर्मिकचिन्तनवानिति वदन्ति। चोरहेतुकभयाभावानु
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122